________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः त्वाजनयतीति विज्ञानादिकमित्यतोऽवगम्यते, इति ।
नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात् प्रत्यक्षसिद्धमेव, तथाहि-मृत्पिण्डशिवकस्थासकघटकपालादिष्वविशेषेण सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः; तथा च-न यथाप्रतिभासं मृत्पिण्डे संवेदनं तथाप्रतिभासमेव शिवकादिषु, आकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहनपवनादिषु तथाप्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते, प्रतीतिविरोधात् । न च निराकारं संवेदनमर्थान्तरमेव, ततो विवक्षितार्थापरिच्छेदात् । न ह्याकारानुभवव्यतिरेकेणापरोऽर्थपरिच्छेदः, अतिप्रसङ्गात्, सर्वस्य
१. नित्यानित्यं वस्तु । २. यथाकारम् । ३. मृत्पिण्ड । ४. निराकारो बोध एव संवेदनमुच्यते । न तु साकारम्, अतोऽनुवृत्तव्यावृत्ताकारं संवेदनमसंवेदनमेव, इति न वाच्यम्, इत्यर्थः। ५. निर्विषयस्येव विषयारूढस्यापि ततो निराकारात् सकाशात् परिच्छेदाभावात् । ६. एतद्भावयति । ७. अतिप्रसङ्गश्च तदाकारताऽभावे निर्विषयस्येव सविषयस्याप्यपरिच्छेदेन ।
For Private and Personal Use Only