________________
Shri Mahavir Jain Aradhana Kendra
अनेकान्तवादप्रवेशः
४१
स्यादेतद्, अशक्या स्वभावान्तरकल्पना, अर्थक्रियाऽभावप्रसङ्गात् इति ।
२
www.kobatirth.org
६.
६
एतदप्यभद्रकम्, क्षणस्थितिधर्मक एव वस्तुतस्तदभावप्रसङ्गात्; तथाहि यथोक्तस्वभावं वस्त्वेवार्थक्रिया, यथोक्तम्- ' भूतिर्येषां क्रिया सैव' इत्यादि, - तच्च न घटामटति, इति निदर्शितमेतद्, अलं विस्तरणेति । किञ्च - अत्रापि ' धर्मधर्मिणोर्नानात्वम् ? अनानात्वं च ?' इति वाच्यम् ? यद्यनानात्वम्, किं सर्वथा ? उत कथञ्चिद् ? यदि सर्वथा, ततः स्थित्यस्थित्योरेकत्वम्, एकस्माद् धर्मिणोऽनानात्वात्, तत्स्वरूपवद् । एवं च स्थितिप्रसङ्गोऽस्थितिप्रसङ्गो वा; धर्मिणो वाऽभेदः, स्थित्यस्थित्योरनानात्वात्, तत्स्वात्मवदेव, तथा चअन्यदेव स्थितिमद्, अन्यच्च तच्छून्यम्, इति कुतः क्षणस्थितिधर्मकत्वम् ? । अथ कथञ्चिद्, अभ्युपगम
Acharya Shri Kailassagarsuri Gyanmandir
१.
नित्यस्वभावकल्पना I २. नित्यं हि वस्तु अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्नार्थक्रियां क्रमेण युगपद्वा कर्त्तुमलम् । ३. वस्तुनि । ४. अर्थक्रिया । ५. क्षणिकमृत्पिण्डादितः क्षणिकघटादेः सत्ता । अक्रियावादिनः । क्षणिकाः सर्वसंस्काराः अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सर्वकारणं सैव चोच्यते ।। १ ।। ७. क्षणिकवादिमते । ८. धर्मि । ९. वस्तुनः स्थितिर्वा स्याद् ? अस्थितिर्वा ? । १०. अभिन्नत्वात् । ११. वस्तु । १२. वस्तु
For Private and Personal Use Only