________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
४०
अनेकान्तवादप्रवेशः समुत्पद्यते' इति प्रतिपत्तव्यम् ।
न चाक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तिर्युज्यते, इति । अतो यदैव स्थितिस्तदैवास्थितिः स्यात्, कुतः क्षणस्थितिधर्मकत्वम् इति। सत्यां वा स्थितौ, क्षणस्थायित्वे तया स्थित्याऽविरोधात्, प्रथमक्षणवत् सदा स्थितिप्रसङ्गः ।
न च 'निरंशतत्स्वभावेभ्यो हेतुभ्यस्तत्स्वभावमेवोत्पद्यते,' इत्युच्यमानं विद्वज्जनसमवाये राजते, युक्तिवैकल्याद, उभयत्र कारणे कार्ये च स्वभावान्तरकल्पनाया अपि शक्यत्वात् ।
१. निरंशैकस्वभावत्वेन युगपत्क्रियाकारिणः । २. इदमुक्तं भवति, यदि द्वितीयादिक्षणे तदेव न भवति इति कोऽर्थ ? क्षणनश्वरं वस्त्वभ्युपगम्यते, तदोक्तनीत्या 'यदैव स्थितिस्तदैवास्थितिः' इति, क्षणमात्रमपि वस्तुनः स्थितिर्न स्यात् । अथैवं वक्षि-यथा 'क्षणनश्वरं वस्त्वभ्युपगम्यते, तथा क्षणस्थाय्यपि, क्षणस्थायित्वं स्थितौ सत्यां सम्भवति', इति 'यदैव स्थितिः तदैवास्थितिः' इति दोषाभावः, न, एवं सति यथा प्रथमक्षणस्थितिर्वस्तुनः, एवं द्वितीयादिक्षणेष्वपि सदा स्थितिः प्रसज्यते, तया स्थित्या सह द्वितीयादिक्षणानामप्यविरोधात् । ३. प्रथमक्षणभाविन्या । ४. क्षणस्थितिधर्मकेभ्यः । ५. क्षणस्थितिधर्मकमेव कार्यम् । ६. 'नित्यस्वभावात् कारणान्नित्यस्वभावमेव कार्यमुपपद्यते' इत्यस्याः।
For Private and Personal Use Only