SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . अनेकान्तवादप्रवेशः . ३९ अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणास्थितिः, इति ? न, तस्यैवायोगात्; तथाहि'क्षणस्थितिधर्मकं क्षणस्थितिस्वभावमुच्यते' इत्यादि तदेवावर्त्तते, इति । अथोच्येत-द्वितीयादिक्षणास्थितौ सत्यां प्रथमक्षणस्थितेरभावाद्, भावे वा तदनुपपत्तेः, प्रतियोग्यभावादन्यानन्यत्वकल्पनासम्भवतस्तदुत्थदोषाभावः; तथाहि-द्वितीयादिक्षणे तदेव न भवति । । नन्वेवमपि तस्यैवास्थितत्वात् स्थितिवत् तदनवस्थितेस्तद्धर्मत्वप्रसङ्गः, अतद्धर्मत्वे च तदा स्थित्यापत्तिः; तथाहि-द्वितीयक्षणे तस्यैव स्थितिरिति, ततश्च 'स्वहेतुभ्य एव स्थित्यनवस्थितिधर्मकं १. अथै कस्मिन् वस्तुन्यन्यानन्यत्वविकल्पमसम्भावयन्नैवमाह पर:-। २. एत... ये... क्तम् । ३. प्रथमक्षणस्थितेः। ४. द्वितीयादिक्षणास्थितेः । ५. यदा द्वितीयादिक्षणास्थितिः, तदा प्रथमक्षणस्थितेरभावः, यदि स्याद्भावः, तदा तस्या द्वितीयादिक्षणास्थितेरनुपपत्तिः, तस्य प्रथमक्षणस्थितिभाविनः पदार्थस्य सम्बन्धिनी असौ द्वितीयक्षणभाविनी अस्तु, इति कृत्वा ततश्च पक्षद्वयेऽपि प्रतियोगिनो द्वितीयस्याभावादन्यानन्यत्वविकल्पानुपपत्तिः । ६. यत्प्रथमक्षणेऽभूदिति । ७. सूरिः । ८. स्थितस्यैव । ९. वस्तु । १०. वस्तु । ११. अनवस्थित्यभावे अनवस्थितिकाले । १२. अनवस्थितिधर्मकत्वमेव वस्तुनो दर्शयति । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy