________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८
अनेकान्तवादप्रवेशः
ञ्चिदनन्यत्वम्, इति ? पूर्वोक्तो दोष:,
अथ द्वितीयादिक्षणास्थितेर भावरूपत्वान्न प्रथमक्षणस्थित्या अन्यानन्यत्वकल्पना युक्तिमती । स्यादेतत्,यदि अभावाद्भेदाभेदौ विहाय वर्तेत । तदुत्तरकालभाविपदार्थान्तरस्थितिरेव
3
Acharya Shri Kailassagarsuri Gyanmandir
अथ
विवक्षितस्य द्वितीयादिक्षणास्थितिरिति ।
हन्त ! तर्हि सुतरामन्यानन्यत्वकल्पनायाः प्रसरः, तथा च सति पूर्वोक्तदोषानतिवृत्तिरेव ।
अथ द्वितीयादिक्षणास्थितिः, परिकल्पितत्वान्न परिकल्पनीया, इति । एवं तर्हि तस्या परिकल्पितत्वादसत्त्वाद्वितीयादिक्षणेष्वपि स्थितिः स्यात् ।
1
अथ प्रथमक्षणस्थितिव्यतिरिक्ता द्वितीयादिक्षणास्थितिः परिकल्पिता, इति प्रथमक्षणस्थितिरेव । तर्हि द्वितीयादिक्षणास्थितिरित्यत्र चोक्तो दोषः । १. अनेकान्तवादापत्तिलक्षणः । २. भावरूपया ३. अन्यत्वानन्यत्वप्रकारौ मुक्त्वा प्रकारान्तरेण यदि वर्त्तेत । ४. प्रथमक्षणात् । ५. यद्यन्यत्वम्, तदोत्तरकालपदार्थान्तरस्थितिक्षणेऽपि पूर्वकालभाविपदार्थक्षणस्थितिप्रसङ्गः; अथानन्यत्वम्, तदैकतरा काचित् । ६. अन्यानन्यत्वकल्पनारूपेण । ७. द्वितीयादिक्षणास्थितिः प्रथमक्षणस्थितिव्य... त्वंशेनैव परिकल्पितेत्युच्यते । ८. प्रथमक्षणं च इति व्यतिरिक्तत्वादसावित्युक्तदोषाभाव:, इति पराशयः । ९. अनन्यत्वपक्षोदितः ।
For Private and Personal Use Only