________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
इति सम्बन्धानुपपत्तेः, समवायकल्पनायाः स्वधर्मेष्वपि तुल्यत्वात् ।
अथानन्यत्वं, तयोरेकत्वप्रसङ्गः, एकस्माद्धर्मिणोऽनन्यत्वात्, तत्स्वात्मवत्; एवं च सति सदसत्त्वयोरभिन्नत्वात् तद्यथा स्वरूपेण सत्, एवं पररूपेणापि स्याद् इत्याद्ययुक्तम् । *असम्भविनौ च निराधारौ धौ सदसद्रूपौ ।
तथान्यानन्यत्वम्, अतोऽनेकान्तवादाभ्युपगमादेकान्तवादिनः स्वमतविरोधः; इत्यलं प्रसङ्गेन ।
।। इति सदसदुभयरुपैकवस्तुवादः ।। एकस्मात्समवायादव्यतिरिक्तत्वात्, तत्स्वरूपवत्; अनेकत्वं वा समवायस्याधिकृतस्वभावाव्यतिरिक्तत्वात्, तत्स्वरूपवदेव, इति । समवायोऽपि स्वसम्बन्धस्वभावत्वसत्त्वादिषु धर्मेष्वनुपपद्यमानसम्बन्धः, कथमन्येषां धर्मिणां धर्मैः सह सम्बन्धमुपपादयितुमलम् ? इत्यर्थः, तस्येति सम्बन्धानुपपत्त्या ।
*तथा च धर्मधर्मिव्यवस्थायोगः, अन्योऽन्यात्मकत्वेनेतरनिराकरणात् । तथाहि,-यदि धर्मिणोऽव्यतिरिक्ता धर्माः, ततो धर्मिमात्रं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्, इति । न सन्त्येव 'धर्माः' इति इतरनिराकरणम्, एवं धर्मिणोऽपि वाच्यम्, धर्माव्यतिरेकादिति । अनिराकरणेऽपीतरस्य सदसत्त्वयोरेकत्वेनैकधर्म्यव्यतिरेकद्वारायातेन तद्वस्तु यथास्वरूपेण सद्, एवं पररूपेण स्यात्; धर्माव्यतिरेकाद् धर्मिण एवासत्त्वं भविष्यति, इत्याह-असम्भवीति ।
For Private and Personal Use Only