SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः ३१ धर्माणामपि वस्तुव्यतिरिक्तत्वात्स्वरूपेण सत्त्वं पररूपेण चासत्त्वम्, इति धर्मान्तरप्राप्तिः; तत्राप्ययमेव न्यायः; इत्यनिष्ठा । स्यादेतद्, न धर्माणां धर्मान्तरमिष्यते, अपि तु त एव स्वरूपेण सुन्ति, पररूपेण न सन्ति' इति; न तद्विलक्षणे सदसत्त्वे इति ।। एतदप्यसमीचीनम्, वस्तुन्यपि समानत्वात्, धर्माभावप्रसङ्गेनाभ्युपगमविरोधात्, 'तद्भावेऽपि तस्य' १. प्रस्तुतानाम् । २. हेतोः । ३. धर्मान्तरयोरपि । ४. धर्माणाम... । ५. पूर्वोक्त एव । ६. निष्ठा परिसमाप्तिः, न निष्ठा, अनिष्ठा, अपरिसमाप्तिरव्यवस्थेत्यर्थः । ७. वैशेषिकः । ८. धर्माः । ९. धर्मि । १०. अतो न धर्माणां धर्मान्तरप्राप्तिः, इति भावः; तथाहि-तदेव स्वरूपेण सत्, पररूपेण चासत्, इत्यपि वक्तुं शक्यत एव, अङ्गीकारेण चास्य पक्षस्य धर्माभावः । व्यतिरिक्तधर्माभावेऽपि तस्य वस्तुन एते 'धर्माः' इति सम्बन्धासिद्धेः । वस्त्वन्तरेण विशेषादित्यर्थः । ११. योऽपि व्यतिरिक्तैरपि धर्मैः सह धर्मिणः सम्बन्धोपपत्तये स्वसंवेधकस्वभावः समवायिसम्बन्धकस्वभावश्चेह प्रत्ययहेतुः समवायः पदार्थः कल्प्यते परैः, तस्यापि स्वसम्बन्धकस्वभावत्वादिभिः स्वधर्मैः सह व्यतिरिक्तेतरविकल्पे दोषाशनिरनिवारितप्रसरः । तथाहि,यदि ते ततो व्यतिरिक्ताः, 'तस्य' इति कः सम्बन्धः ? । अथाव्यतिरिक्ताः, तर्हि एकत्वम्, अधिकृतस्वभावानां For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy