________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
अनेकान्तवादप्रवेशः
तद्भावरुपमेव स्याद्' इत्यादि प्रतिक्षिप्तम्, अभावस्य वस्तुधर्मत्वात् कथञ्चिदव्यतिरेकात् । कार्यान्तराकारणत्वाद्; इति । तस्माद् व्यवस्थितमेतत्सदसद्रूपवस्तु; तथा चोक्तम्
I
'यस्मात् प्रत्यक्षसंवेद्यं, कार्यतोऽप्यवगम्यते तस्मादवश्यमेष्टव्यं, वस्त्वेकं सदसदात्मकम् ॥ १ ॥
इति ।
अत्रान्यस्त्वाह- ननु च 'वस्तुनः स्वरूपेण सत्त्वम्, पररूपेण चासत्त्वम् इति एतदिष्यत एव' इति सिद्धसाध्यता । एतदप्ययुक्तम्;
Acharya Shri Kailassagarsuri Gyanmandir
स्वमतविरोधात्; तथाहिएवमिच्छता 'वस्तुन एव सत्त्वमसत्त्वं च धर्मो ' इत्येष्टव्यं वक्तव्यं च - धर्मधर्मिणोरन्यत्वमनन्यत्वमन्यानन्यत्वं च इति । किं चात: ? यद्यन्यत्वम्, अवस्तुत्वादिप्रसङ्गः । कथम् ? इह 'वस्तु धर्मव्यतिरिक्तं स्वरूपेण सत्पररूपेण चासद्' इत्यभ्युपगमात् । धर्माणां च परत्वात्तद्रूपेणासत्त्वादवस्तुत्वप्रसङ्गः । एवं
For Private and Personal Use Only
-
१. पूर्वपक्ष प्रस्तावे परेणोक्तं... तदभावस्य... । २. वैशेषिकादिः । ३. उभयात्मकम्, इति भावः । ४. आदिपदाद् धर्मधर्मिप्राप्तिपरिग्रहः । धर्मा अपि धर्मिणः प्राप्नुवन्ति, इति दोषः । ५. सदादिना धर्मरूपेण ।