________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वशः
अनेकान्तवादप्रवेश:
२९ हन्त, तर्हि 'येनैवाकारेण करोति, तेनैव न करोति' इत्येत्तदापन्नम् । एवं चाभिन्ननिमित्तत्वे सत्येकत्र कर्तृत्वाकर्तृत्वयोर्विरोधः, इति; तथाहितेनैव स्वभावेन करोति, न करोति च इति ? व्याहतमेतद्, एकस्वभावस्यैकत्रोपयोगात् ।
कार्यान्तराकर्तृत्वं तत्र परिकल्पितम् इति चेत् ? तदप्यमनोहरम्, कार्यान्तराकर्तृत्वस्य तत्र परिकल्पितत्वाद्वस्तुतोऽसत्त्वात्, तद्भावापत्त्या कार्यान्तरकर्तृत्वप्रसङ्गात् ।
अथाशङ्का, स्वकार्यकर्तृत्वव्यतिरिक्तं कार्यान्तराकर्तृत्वं परिकल्पितम्, स्वकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभावमभ्युपगम्यत एव, इति ।
एतदप्ययुक्तम्, दत्तोत्तरत्वात्; तथाहि-येनैव स्वभावेन करोति तेनैव न करोति, इत्येतदापन्नम्, इत्यादि तदेवावर्त्तते । अनेनैव 'सर्वात्मना च करणे
१. स्वभावेन । २. अन्यथा सर्वथैकत्वायोगः । ३. कारणे । ४. कारणे । ५. कार्यान्तराकर्तृत्वस्याविद्यमानत्वात् । ६. कार्यान्तरकर्तृभावापत्त्या । ७. न हि तद्भावमन्तरेण तदभावः, इति भावना । ८. स्वकार्यकर्तृत्वव्यातिरिक्तत्वरूपेण कार्यान्तराकर्तृत्वं परिकल्पितमुच्यते, स्वकार्यकर्तृत्वाव्यतिरिक्तं त्वस्त्येव इत्यर्थः, इत्युक्तदोषाभावः, इति पराशयः । ९. उक्तन्यायेन ।
-
For Private and Personal Use Only