________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अनेकान्तवादप्रवेशः
विरोधात्;' इत्याद्यप्यसारम्, विरोधासिद्धेः; तथाहिपर्यायात्मना करोति, द्रव्यात्मना न करोति; कुत एकस्य करणाकरणविरोधः ? इति । अथवा स्वकार्यकर्तृत्वेन करोति, कार्यान्तरकर्तृत्वेन न करोति; अतः केनचिदाकारेण करोति, केनचिन्न करोतीति; कोऽत्र विरोधः ? न च स्वकार्यकर्तृत्वमेव कार्यान्तराकर्तृत्वम्; यदि स्यात् , यथा स्वकार्यं करोति, एवं कार्यान्तरमपि कुर्यात्, कर्तृत्वानन्यत्वादकर्तृत्वस्य; विपर्ययो वा, ततश्चाकारणत्वम्, इति ।
स्यादेतत्,-किं हि नाम कार्यान्तराकर्तृत्वमन्यत् ? यदाऽऽश्रित्यानन्यत्वयुक्त्यनुसारेणाकारणत्वं प्रतिपाद्यते; किन्तु स्वकार्यकर्तृत्वमेवैकस्वभावं कार्यान्तराकर्तृत्वम्, इति ।
१. नैमित्तिकेन रूपेण तथा परिणतेः । २. मृदादिरूपेण तथाऽपरिणतेः । ३. कार्यमधिकृत्योक्त्वा कारणमधिकृत्याह-। ४. एतदेकमेव । ५. 'तर्हि' इति शेषः । ६. यथा वा कार्यान्तरं न करोति, एवं स्वकार्यमपि न कुर्यात् । ७. अकर्तृत्वानन्यकर्तृत्वस्य । अवचूरित्यु( त्य)क्तम् (?) । ततश्चैवमनेनप्रकारेण 'अकारणत्वम्' । इति कुर्वतः कारणत्वायोगात् । ८. अधिकृतकारणस्य । ९. नैव किञ्चिदन्यत् । १०. एवं च तदेकमेव इत्यर्थः ।
For Private and Personal Use Only