________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः ।
२७ यत्किञ्चिदेतद्, एवं निबन्धनपरम्परायामपि वाच्यम् इति । नापि निरुद्धस्य, तस्यैवाविद्यमानत्वाद्, असतश्चोपकारकरणायोगाद, अभ्युपगमे चातिप्रसङ्गाद् । अतः साधुत्वं 'हेत्वयोगात्' इति । क्षणिकैकान्तपक्षे च फलभावानुपपत्तेः, इति; एतच्च वक्ष्यामः ।
यच्चोक्तम्-'भेदाभेदमभ्युपगच्छतावश्यं चेदमङ्गीकर्त्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः' इत्यादि । एतदपि 'धर्माणां मिथो भेदात् प्रतिनियतधाश्रितत्वाच्च कथञ्चिद्भेदः' इत्यादिना प्रत्युक्तम्, प्रकारान्तरेण भेदाभेदासिद्धेः ।
यदप्युक्तम् ‘संविन्निविष्टाश्च विषयव्यवस्थितयः; न च सदसद्रूपं वस्तु संवेद्यते उभयरूपस्य संवेदनस्याभावाद्' इत्यादि । एतदपि 'अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्यक्षतोऽवसीयते' इत्यादिना परिहृतम्, उभयरुपस्य संवेदनस्याबाधितत्वात् ।
यच्चोक्तम्-'न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते' इत्यादि । एतदप्यनवकाशम्, वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्त्वात् ।
_ 'न च तत्कार्यकरणे प्रवर्त्तमानं केनचिदाकारेण करोति केनचिन्न करोति, एकस्य करणाकरण
For Private and Personal Use Only