SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ अनेकान्तवादप्रवेशः निरुद्धस्य वोपकुर्याद् ? इति भेदाः । न तावदनुत्पन्नस्य, तस्यैवासत्त्वाद्, असतश्चोपकाराकरणात्; नाप्युत्पन्नस्य, तस्यानाधेयातिशयत्वाद, अतिशयाधानमन्तरेण चोपकाराभावाद्, अतिशयाधाने च तदन्यत्वप्रसङ्गात् । द्वाभ्यामप्येकीभूय तदन्यकरणमेवातिशयाधानं, स एवोपकारः, इति चेत् ? न, उपादानकारणविशेषाधानमन्तरेण ततः कार्यविशेषासिद्धेः । न चैककालभाविनाऽन्यतो भवतोऽन्यत एव भवतातिशयाधानं युज्यते, तन्निबन्धनस्य तत्कृतविशेषासिद्धेः, तदभ्युपगमे च तत्राप्ययमेव वृत्तान्तः, इति । १. विनष्टस्य । २. तस्योत्पन्नस्य हि अतिशयाधाने सोऽतिशयोभिन्न एव स्याद्, यद्वातिशयाधानकाले स उत्पन्नोऽन्य एव स्यात्, क्षणादूर्ध्वमनवस्थितेः ।३.अतीतावकल्पजसंस्कारवर्तमानानुभवजसंस्काराभ्याम् । ४. अतीतविकल्पजसंस्कारविशेषाधानं विना । ( * विकल्पज्ञान० ।) ५. अतीतविकल्पजसंस्कारात् । ६. अतीतविकल्पजसंस्कारेण सह भवता । ७. स्वहेतोः । ८. अतीतविकल्पजसंस्कारस्य । ९. वर्तमानानुभवजसंस्कारेण ।१०. तस्यातीतविकल्पजसंस्कारस्य यन्निबन्धनमुपादानं, तस्य वर्तमानानुभवजसंस्कारकृतविशिषासिद्धेः । ११. तदभ्युपगमे च सामान्येन तन्निबन्धनस्य तत्कृतविशेषाभ्युपगमे च, तत्रापि तन्निबन्धने, अयमेवअनन्तरोदितः 'न, उपादानकारणविशेषाधानमन्तरेण ततः कार्यविशेषासिद्धेः' इत्यादि वृत्तान्तः । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy