________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
३३ यच्चोक्तम्-'एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यं विरोधादेव' इत्यादिः एतदपि न सम्यक्, प्रमाणतस्तथावगमात्; तथाहि-अध्यक्षेण नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात्; तथा च, यदि तत्राप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते; एवं तर्हि तद्विज्ञानजननस्वभावं वा स्याद् ? अजननस्वभावं वा ? यद्याद्यः पक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात्। न चैतदेवम् । क्वचित्कदाचित्कस्यचिदेव तद्विज्ञानभावात् । न च 'सर्वथैकस्वभावस्य देशादिकृतो विशेषः' इति कल्पना युज्यते, तद्भावेऽनित्यत्वप्रसङ्गात् । 'सहकारिणमपेक्ष्य जनयति' इति चेत् ? न, एकान्तनित्यस्यापेक्षायोगात्; तथाहि-सहकारिणा तस्य विशेषः क्रियते ? न वा ? इति वक्तव्यम्, यदि क्रियते; किमर्थान्तरभूतः ? अनर्थान्तरभूतो वा ? इति,
१२
१. नित्यानित्यप्रकारेण । २. एवमनभ्युपगमे । ३. भावयति । ४. वस्तु । ५. क्षेत्रे । ६. प्रमातृणाम् । ७. अधिकृतवस्तु । ८. वस्तुनः । ९. क्षेत्रकालादिभिर्विशेषानाधानात् । १०. तस्मिन् वस्तुनि । ११. प्रकृतमेव समर्थयति । १२. वस्तुनः । १३. न हि प्राक्स्वभावनिवृत्तिं विना वस्तुनो विशेषः। १४. आलोकादिकम् । १५. वस्तुविज्ञानम् । १६. एकरूपतया ।
For Private and Personal Use Only