________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
अनेकान्तवादप्रवेशः यत्पुनरिदमुक्तम्-'ततश्चात्रापि वक्तव्यम्; धर्मधर्मिणोः किं तावद्भेदः,-' इत्यादि । अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षितिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव ।
आह-नन्वत्रापि 'येनाकारेणभेदस्तेन भेद एव,'इत्यादि दूषणमुक्तम् ।
उक्तमिदम्, अयुक्तं तूक्तम्, अधिकृतविकल्पस्यार्थापरिज्ञानात्, अन्योन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात् केवलभेदाभेदानुपपत्तेः । न हि 'अन्योन्याननुविद्धावेतौ' इति जैनमतम्, अभेदाननुविद्धस्य केवलभेदस्यासिद्धेः, भेदाननुविद्धस्य चाभेदस्यासिद्धेः । अत:-'येनाकारेण भेदस्तेन भेद एव' इत्यर्थशून्यमेव ।
अथ 'धर्मधर्मिणोर्भेदाभेदः' इति कोऽर्थः ? कथञ्चिद्भेदः कथञ्चिदभेदः, इति । तत्र धर्माणां मिथो १. प्रकारेण । २. भेदाभेदरूपस्य । ३. 'न नरो नर एवेति, न सिंहः सिंह एव वा ।
शब्दविज्ञानकार्याणां भेदाज्जात्यन्तरं हि तत् ।। १ ।। न नरः सिंहरूपत्वान्न सिंहो नररूपतः । सामानाधिकरण्येन नरसिंहः प्रतीतितः ।। २ ।।'
For Private and Personal Use Only