SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः २३ भेदात् प्रतिनियतधाश्रितत्वाच्च कथञ्चिद्भेदः । तथाहि-न धर्माणां धर्मिणा सर्वथैकत्वे धर्मतयापि भेदो युज्यते, इति प्रतीतमेतद् । तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वाद्धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाच्च कथञ्चिदभेदः, इति । न चात्यन्तभेदे धर्मधर्मिकल्पना युज्यते, अतिप्रसङ्गात् । स्यादेतद, उत्प्रेक्षितेयं धर्मधर्मिकल्पना, न तत्त्वतः; इति । एतदप्ययुक्तम्, दृष्टविरोधात् । न च दृष्टेऽनुपपन्नं नाम, अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्यक्षतोऽवसीयते । न चाऽऽविद्वदङ्गनादिप्रतीतानुभवापलापः शक्यते कर्तुम् । अनुभवश्च पुरोऽवस्थिते घटादौ तदतद्रूप एवोपजायते; अन्यथा तदभावप्रसङ्गात् । स्यादेतद्,एक स्वभाव एवासावनुभवो घटप्रतिच्छायतयोपजायमानः घटादिप्रतिभासव्यवच्छेदेन ख्याप्यते । न पुनरस्य भावतो द्वे रुपे । तथा चोक्तम्-‘एकोपलम्भानुभवाद् 'इदं नोपलम्भे' इति बुद्धेः 'उपलम्भे वा' इति कल्पितायाः समुद्भवति' । १. पटादेरपि घटधर्मत्वापत्तेः । २. सङ्कीर्णत्वेन नियतत्वासिद्धेः । ३. वस्तु । ४. नीलादौ । ५. एकात्मैव घटादेरुपलम्भानुभवात्, परम् 'इदं पटादिकं समुपलम्भे', For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy