________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश:
२१
भिन्ननिमित्तत्वाद् धर्मिभावात् । एतच्चोत्तरत्र प्रपञ्चयिष्यामः । अनुभवसिद्धत्वाच्च; तथाहि स्वपररूपाव्यावृत्तव्यावृत्तरूपमेव तद्वस्तु अनुभूयते ।
स्यादाशङ्का, - 'स्वरूपाव्यावृत्तिरेव पररूपव्यावृत्ति:' इति ।
-
एषाप्ययुक्ता, विहितोत्तरत्वात् ।
यस्मादेवं तस्मात् समुत्सारितपक्षपातैर्न्यायविद्भियुक्तियुक्तत्वात् सदसद्रूपं वस्त्वङ्गीकर्तव्यम् । आह चयस्मात्सत्त्वमसत्त्वं च न विरुद्धं मिथो द्वयम् । वस्त्वेकं सदसद्रूपं ननु तत् किं न युज्यते ? ॥ १ ॥
यदप्युक्तम्- 'सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाभ्युपगतं भवति'; एतदिष्यत एव ।
For Private and Personal Use Only
१. स्वद्रव्यादयः सत्त्वकल्पनानिमितम्, परद्रव्यादयश्चासत्त्वकल्पनायाः । २. अनुभवे च तद्बोधाद्यनेकरुपतायामिव को विरोध: ? । ३. वस्तुतः स्वरूपाव्यावृत्तिः पररूपव्यावृत्तिश्च द्वेऽप्यनुभूयेते; इत्युभयात्मकं वस्तु, इति आचार्येण स्थापिते पर आशङ्कते - स्यादाशङ्केति । ४. एकरूपा । ५. 'न स्वरूपसत्त्वमेव पररूपासत्त्वम्' इत्यादिना भिन्ननिमित्तत्वेनानयोरेकत्वाभावात्, तत्त्वतोऽन्यरूपाभावमन्तरेणान्यथावृत्त्या( त्त्य ) सिद्धेः । ६. शबलरूपतया । ७. न ह्यभ्युपगमा एव बाधायै स्युः ।