________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
अनेकान्तवादप्रवेशः
उच्यते - यद्यपि सन्निवृत्तिमात्रं निरुपाख्यमसत्, तथापि स्वरूपेण सत्त्वात्, तद्रूपेण चासत्त्वात्, सदसद्रूपतैव; इति । ततश्चैवं न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्त्वं सत्त्वपरिहारेण ।
न चानयोरविशेष एव भिन्ननिमित्तत्वात्; तथाहि - 'स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासद् ; ' इत्युक्तम् । ततश्च तद् यत एव सत् अत एवासद्, परद्रव्यादिरूपासत्त्वे सति स्वद्रव्यादिरूपेण सत्त्वाद्; तथा यत एवासत् अत एव सद् स्वद्रव्यादिरुपसत्त्वे सति परद्रव्यादिरूपेणासत्त्वात् ।
अत एव चैकत्र सदसत्त्वयोर्विरोधो न सम्भवति,
Acharya Shri Kailassagarsuri Gyanmandir
सतः
१. पररूपेण । २. यस्माद्वस्त्वेवात्मघटादिसदसद्रूपतयोभयात्मकं वर्त्तते । न सत्त्वाननुविद्धमसत्त्वं नाम, तत्र वस्तुनि यदपेक्षयैतदुभयरूपं वस्त्विति, अतो यद्यपि 'सन्न भवतीति असत्' प्रसज्यप्रतिषेधरूपं, तथापि परद्रव्यादिरूपेण * प्रतिषेधात्; तस्य च परद्रव्यादिरूपेण सतस्तत्र विवक्षितसत्त्वेऽसत्त्वात्, तत्स्वरूपस्य तत्प्रतिषेधाय; असत्त्वस्य च सत्त्वानुवेधाद्विवक्षितसत्त्वानुवेधात् कारणान्न निरुपाख्यमेव इति प्रसज्यप्रतिषेधपक्षोक्त दोषाभाव:, पर्युदासप्रतिषेधपक्षदोषस्त्वनभ्युपगमान्न नः क्षितिमावहति । ( * पटादेः । ) ३. तदनात्मकत्वेन । ४. भावात्मकत्वेन ५. भावात्मकत्वेन ।
तदसत्त्वम्;
For Private and Personal Use Only