________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः इत्यादि तदेवावर्तते, इति, अलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन, इति ।
अपरस्त्वाह-'सदसद्रूपं वस्तु' इत्यत्रासत्पक्षे प्रसज्यप्रतिषेधो वा स्यात् ? पर्युदासो वा ?
किचातः ?
उभयथापि दोषः; तथाहि-यदि 'सन्न भवति' इत्यसत्, सन्निवृत्तिमात्रं निरुपाख्यमसत् ; ततश्च तस्य प्रमाणगोचरातीतत्वाद्वस्तुधर्मत्वानुपपत्तिः ।
अभ्युपगमे वा वस्तुन एव निरुपाख्यत्वप्रसङ्गः; तथाहि-न निरुपाख्यस्वभावं सोपाख्यस्वभावं भवितुमर्हति ।
अथ सतोऽन्यदसद्, सदन्तरमेवासद्, इति ? एवमपि तस्य सदात्मकत्वादेव सदसद्रूपत्वानुपपत्तिः; तथाहि-न 'सत् सदन्तरात्मकम्' इति सचेतसो वक्तुं युज्यते, इति ।
एतदप्ययुक्तम्, भगवदहन्मतापरिज्ञानात्, पक्षद्वयेऽपि दोषाभावात् ।
कथमभावः ? इति ।
१. नैयायिकादिः । २. कोऽर्थः ? तुच्छधर्मकम् । ३. प्रसज्यप्रतिषेधरूपम् । ४. एतदेव व्याख्याति । ५. पर्युदासपक्षे । ६. असतः ।
For Private and Personal Use Only