________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः स्यादेतद्,-तत्राबादिद्रव्यासत्त्वस्य परिकल्पितत्वाद्यथोक्तदोषाभावः; इति । सोऽयं गडुप्रवेशेऽक्षितारिकाविनिर्गमन्यायः, तथाहि-तंत्राबादिद्रव्यासत्त्वस्य परिकल्पितत्वात् असत्त्वात् तद्रूपेणाप्यस्तित्वप्रसङ्गः; अनिष्टं चैतत्, इति ।
स्यादेतद्, पार्थिवद्रव्यसत्त्वव्यतिरिक्तमबाद्यसत्त्वं परिकल्पितं, पार्थिवद्रव्यसत्त्वमेव पुनरबाद्यसत्त्वस्वभावमिष्यत एव, इत्यतोऽनपराधः; इति ।
अहो ! दुरन्तः स्वदर्शनानुरागः, प्रत्युक्तमपि नावधारयति; यतः-न च तद् येनैव स्वभावेन पार्थिवद्रव्यत्वेन सद्वर्तते तेनैवाबादिद्रव्यत्वेनासद्
१. न सर्वथैव द्विरूपम्, इति भावः । २. प्रस्तुतदोषपरिहारेणाधिकतरदोषान्तरापत्तिः, इत्यर्थः । ३. पार्थिवद्रव्यसत्त्वे । यथा घटादौ घटादिद्रव्यासत्त्वं परिकल्पितत्वादसद्, इति कृत्वा घटादिरूपेणास्तित्वमेव, एवमबादिरूपेणाप्यस्तित्वं स्यात् । ४. अबादिद्रव्यसत्त्वरूपेण पार्थिवद्रव्यसत्त्वस्य । ५. पार्थिवद्रव्यसत्त्वव्यतिरिक्तत्वांशेनैव अबाद्यसत्त्वं परिकल्पितमुच्यते । पार्थिवद्रव्यसत्त्वाव्यतिरिक्तं त्वेतदस्त्येव, इत्युक्तदोषाभावः, इति पराभिप्रायः । (परमार्थतः स्वसत्त्वादसत्त्वादबाद्यसत्त्वस्य । एकरूपम् । वस्तुस्थित्या) [कोष्ठकान्तर्गतं टिप्पनकं कस्य मूलपाठस्य, इति न ज्ञायते । तच्चिन्त्यं धीधनैः ।]
For Private and Personal Use Only