________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः नामास्ति, यदपेक्षयाऽव्यतिरिक्तविकल्पोपन्यासेनावस्तुत्वापत्त्यात्मनो न्यायाभिज्ञता ख्याप्यते; अपि तु पार्थिवद्रव्यसत्त्वमेव विशिष्टमेकस्वभावमबाद्यसत्त्वमुच्यते । ततश्च यथोक्तदोषाभावाद् व्यर्थो विकल्पोपन्यासपरिश्रमः, एवं शेषेष्वपि भावनीयम्; इति ।
अहो ! दुरन्तो मोहः, स्ववाचाऽपि प्रतिपादयन्ननेकान्तं न प्रतिपद्यते । तथाहि-'पार्थिवद्रव्यसत्त्वमेव विशिष्टमबाद्यसत्त्वम्,' इति वक्ति, न च सदसद्रूपं वस्तु प्रतिपद्यते; इत्यपूर्वो विभ्रमः । न हि स्वपरसत्ताभावाभावोभयरूपतां विहाय वस्तुनो विशिष्टतैव सम्भवति । न च तद्येनैव स्वभावेन पार्थिवद्रव्यत्वेन सद्वर्तते, तेनैवाबादिद्रव्यत्वेनासत्, अभिन्ननिमित्तत्वे सति एकत्र सदसत्त्वयोर्विरोधात्; तथाहि-तेनैव स्वभावेन सच्चासच्च, इति ? विरुद्धमेतत्।।
१. सूक्ष्मोक्तिवित्त्वम् । २. त्रैलोक्यव्यावृत्तम् । ३. (सदै) सदेकस्वभावतया । ४. न तु तदन्यत् । ५. अवस्तुत्वप्रसङ्गरूपः । ६. आदिमध्यान्तरौद्रः । ७. येन पार्थिवद्रव्यसत्त्वमेव विशिष्टमिति । ८. अबाद्यसत्त्वस्य स्वभावतया । ९. उभयनिमित्तभावेऽपि उभयाप्रतिपत्तेरपूर्वत्वम् । १०. कथम् ?। ११. विशेषणं विना वैशिष्ट्यायोगात् । १२. घटादि । १३. एतदेव व्याख्याति । १४. येनैव सत् तेनैवासन्न स्यात्, इत्यर्थः ।
For Private and Personal Use Only