________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
विशेषोपादानभावलक्षितस्वभावं हि वस्तु 'दधि' इति । 'स' च तादृशः स्वभावः, 'अन्यत्र नास्तीति' प्रवृत्त्यभावादर्थिनः । तस्मान्नोभयरूपम्; इत्येकान्तवादः ।
इति तृतीयपूर्वपक्षः ।। ३ ।। एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् । तथाहि-अभिलप्यते यत् तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यम्, इति । ततश्च यदि तदभिलाप्यम्, न तर्हि अनभिलाप्यम्; अनभिलाप्यं चेत्, न त भिलाप्यम्; इति, एकस्यानेकविरुद्धधर्माभावात् ।
इति चतुर्थपूर्वपक्षः ।। ४ ।। किञ्चविरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः; तथाहिएतदात्माङ्गनाभवनमणिकनकधनधान्यादिकमनात्मकम्, अनित्यम्, अशुचि, दुःखम्, इति कथञ्चिद्विज्ञाय, भावतस्तथैव भावयतः, वस्तुतः तत्राभिषङ्गास्पदाभावाद्, भावनाप्रकर्षविशेषतो वैराग्यमुपजायते;
१. अनन्तरोक्तदधिस्वभावः । २. उष्टे, कुतः ? दध्यर्थिन उष्ट्र प्रवृत्त्यभावात् । ३. परपरिकल्पितान्वयाख्यात्मशून्यम् । ४. विशिष्टक्षणोत्पादकस्वभावतया हेतुपरंपरातो विशिष्टक्षणोत्पादेन विज्ञाय श्रुतिमप्या( य्या) प्रज्ञया । ५. परमार्थेन ।
For Private and Personal Use Only