________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः ततो मुक्तिः । तथाहि-आत्मात्मीयदर्शनमेव मोहः, तत्पूर्वक एवात्मीयस्नेहो रागः, तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिर्द्वषः, इति कृत्वा सुर्वमुपपद्यते। यदा तु तदात्माङ्गनादिकं सात्मकाद्यपि, तदा यथोक्तभावनाऽभावात्, भावेऽपि मिथ्यारूपत्वात्, वैराग्याभावः, तदभावाच्च मुक्त्यभावः, इति ।
इति पञ्चमपूर्वपक्षः ।। ५ ॥
इतिपूर्वपक्षग्रन्थः । तदेवमेते मन्दमतयो दुस्तर्कोपहतास्तीर्थ्याः स्वयं नष्टाः, परानपिनाशयन्ति मन्दमतीन् ।अतः प्रतिविधीयते
तत्र यत्तावदुक्तम् 'कथमेकमेव घटादिरुपं वस्तु सच्चासच्च भवति ?' तदेतदागोपालाङ्गनादिप्रतीतमनाशङ्कनीयमेव । यतः-तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते; परद्रव्यक्षेत्रकालभावरूपेणाऽसत् ततश्च सच्चासच्च भवति । अन्यथा, तदभावप्रसङ्गात्; तथाहि-यदि तद् यथा स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, तथैव परद्रव्यक्षेत्रकालभावरूपेणापि स्यात् ततश्च तद् घटादि वस्त्वेव न स्यात्, परद्रव्यक्षेत्रकालभावरूपेणापि सत्त्वात्, तदन्यस्वात्मवत् ।
१. विपर्ययरूपत्वात् । २. शबलरूपतया सात्मकम्, नित्यम्, शुचि, अदुःखम् इति । ३. वस्तुनोऽन्यथात्वेन । ४. भावनायाः ।५. घटवस्तु । ६.घटवस्तु।७. पटादिस्वात्मवत् ।
For Private and Personal Use Only