________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनेकान्तवादप्रवेश:
११
१०
येनान्योऽपि स्याद्दृष्टः । तथा दृध्यपि स्यादुष्टुः, नापि तदेव दधि, येनान्यदपि स्यात् । तदेवमनयोरेकस्यापि कस्यचित्तद्रूपभावस्याभावात्स्वरूपस्य वाऽतद्भाविनः स्वनियतस्याभावात् न कश्चिद्विशेष:, इति । ततश्च दधि खादेति चोदितः उष्ट्रमपि खादेत् । अथास्त्यतिशयः कश्चिद्, येन भेदेन वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ १ ॥ अथानयोः कश्चिदतिशयोऽस्ति, येनायं तथानोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र । एवं तर्हि ' स एव' अतिशयोऽर्थक्रियार्थिप्रवृत्तिविषयः तत्र्फेल१. कारणेन । २. दध्यादि । ३. दध्येव । ४. कारणेन । ५. उष्ट्रादि । ६. एतेन 'सर्वस्योभयरूपत्वे' इति पदं व्याख्यातम् । ७. 'तद्विशेषनिराकृते:' इत्येतत् 'तदेवमनयोः ' इत्यादिना व्याचष्टे । ८. उभयथा हि दध्युष्ट्रयोर्विशेषः स्यात्, दधिरूपाभावो वोष्ट्रो भवेत्, उष्ट्र स्वरूपं दध्यसंभविन्युष्टस्वरूप एव नियतं स्यात् । एवं दध्यपि वाच्यम् । आद्यस्य तावदसंभव: 'तद् 'इत्यादिना द्वितीयस्य च 'स्वरूप' इत्यादिना कथ्यते । ९. दध्न उष्ट्रस्य वा । १०. तत्साध्या या अर्थक्रिया, तया अर्थी यः पुरुषः । ११. दध्नैव साध्यत्वात् तत्फलविशेषः, स चासौ फलविशेषश्च, तस्योपादानभावो हेतुभावः तेन लक्षितः स्वभावो यस्य वस्तुनः, तदेव दधि, इति कृत्वा ।
वा
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only