________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः किञ्च; सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोक प्रसिद्धसंव्यवहारनियमोच्छे दप्रसङ्गः; तथाहि-विषमोदकक्षीरकर्कादिव्यक्त्यभिन्नं नानास्वभावमेकं सामान्यं वर्तते । ततश्च न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यातिरेकात्; नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् ।।
किं तर्हि उभयमपि उभयरूपम् ? । ततश्च विषार्थी विषे प्रवर्तेत मोदके च, एवं मोदकार्थ्यपि मोदके विषे च । लोकश्च विषार्थी विष एव प्रवर्तते, न मोदके; मोदकार्थ्यपि मोदक एव, न विषे; इत्यस्य नियमस्योच्छेदः स्यात् । तथा च विषे भक्षिते मोदकोऽपि भक्षितः स्यात्, मोदके भक्षिते विषं भक्षितं स्यात्। तथा च सति प्रतीतिविरोधः स्यात् । एवं क्षीरमपि न क्षीरमेव, कांद्यनर्थान्तरभूतसामान्याव्यतिरेकात्; कर्कोऽपि न कर्क एव, क्षीराद्यव्यतिरिक्तसामान्याव्यतिरेकादेव । ततश्च इहापि क्षीरार्थी
१. श्वेताश्वः । २. आदिशब्दाद्गजादिः । ३. भेदः । ४. सत्त्वादि । ५. मोदकस्य । ६. इतरेतराभिन्नसामान्यभेदेन । ७. विषमोदकरूपम् । ८. सामान्यविशेषोभयरूपभवन्मता
गीकारे । ९. मोदकभक्षणे विषभक्षणे जाते सति । १०. अनुभव ।
For Private and Personal Use Only