________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3
अनेकान्तवादप्रवेशः
इयमप्ययुक्ता, यस्माद्, एषाप्यत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः; तथाहिन पर्यायव्यतिरिक्तं द्रव्यमस्ति तथानुभवाभावात्; व्यतिरिक्तभावे वा, अनेकरूपैकवस्तुवादहानिप्रसङ्गः । तथा चोक्तम्
पर्याया भेदिनो नित्यं द्रव्यं स्यात्तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे संप्रसज्यते ।। १॥ व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्द्घोष्य एव ।
इति द्वितीयपूर्वपक्ष: ।। २ 11
एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् । तथाहि एकं सामान्यम्, अनेके विशेषा:; तथा नित्यं सामान्यम्, अनित्या विशेषाः; तथा निरवयवं सामान्यम्, सावयवा विशेषाः; तथा अक्रियं सामान्यम्, सक्रिया विशेषाः; सर्वगतं सामान्यम्, असर्वगता विशेषाः । ततश्च तद्यदि सामान्यरूपम्, कथं विशेषरूपम् ? विशेषरुपं चेत्, कथं सामान्यरूपम् ? इति ।
१. न हि पिण्डशिवकादिव्यातिरिक्तं मृद्द्द्रव्यमनुभूयते । २. पर्यायेभ्यो द्रव्यस्य 1 ३. पर्यायस्य तावत् । ४. पर्यायद्रव्ययोः । ५. नित्यानित्यनिराकरणेन ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only