________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः नित्यमाख्यायते, प्रकृत्यैकक्षणस्थितिधर्मकं चानित्यमिति । ततश्च यदि नित्यम्, कथमनित्यम् ? अनित्यं चेत्, कथं नित्यं ? इति ।
स्यादारेका 'न हि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, परिणामिनित्यताऽभ्युपगमात्; किन्त पूवोत्तरक्षणप्रविभागेन प्रबन्धवृत्त्या । न ह्यस्य पर्यायाणामिवोच्छेदः, तद्रूपेण तथाऽप्रतितेः। पर्याया एव हि पर्यायरूपेण निरुध्यन्ते, न तु द्रव्यम्; इति नित्यमभ्युपगम्यते' । स्वभावतयाऽनुत्पन्नः सदाभावेन स्थिरः, एवंरूपतया एकः स्वभावो यस्य । क्षणस्थितिस्वभावमपि एकस्वभावं स्यात्, तव्यवच्छेदार्थं स्थिरग्रहणम् । स्थिरकैस्वभावमपि मुक्तवस्तु कैश्चिन्नित्यमिष्यते, तव्यवच्छे दायानुत्पन्नेति । अनुत्पन्नस्थिरैकस्वभावमपि स्वप्रच्युतिसमयं यावत् कैश्चिन्नित्यमिष्यते (घटप्रागभावादिः), तद्व्यवच्छेदायाप्रच्युतेति ।
१. स्वभावेन । २. एकरूपतया । ३. मीमांसकैरिवेति शेषः । ४. पूर्वोत्तरक्षणयोः कालसमयलक्षणयो रकमनुष्ययोरिव परस्परं यः प्रविभागोऽत्यन्तभेदरूपः, तेनोपलक्षिता या प्रबन्धवृत्तिः सर्वक्षणेष्वेकद्रव्यानुवृत्तिलक्षणा, तया नित्यत्वमास्थीयते जैनैः ।५. द्रव्यस्य ।६. पूर्वोत्तरक्षणप्रविभागेन द्रव्यरुपेण । ७. उच्छेदेन । ८. तत्तत्क्षणस्थितिस्वभावतया विनश्यन्ति । ९. तत्स्वभावतया तन्निरोधबीजम् । .
For Private and Personal Use Only