________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः न क्षीर एव प्रवर्तेत, अपि तु कर्केऽपि, एवं कर्कार्थ्यपि न कर्क एव, किं तर्हि ? क्षीरेऽपि । न चेत्थमनियमेन प्रवृत्तिदृश्यते । . स्यादेतद्,-'विषादिषु विशेषरुपताप्यस्त्येव, सा तदर्थनो नियमेन प्रवृत्तेर्बीजम्, तद्भक्षणे च नान्यभक्षणं स्यात्; इति' ।
एतदयुक्तम्, विकल्पानुपपत्तेः; तथाहि-विषादिषु विशेषरुपता मोदकादिविशेषरुपव्यावृत्ता वा स्यात् ? स्वरूपनियता वा ? । न तावन्मोदकादिविशेष-रुपव्यावृत्ता, तदनर्थान्तरभूतसामान्याव्यतिरेकात्; व्यतिरेके चोभयरुपवस्तुवादहानिप्रसङ्गात्; व्यतिरेकाव्यतिरेक पक्षस्य च विरोधेन तिरस्कृतत्वात् । नापि स्वरूपनियता, मोदकाद्यभिन्नसामान्यानर्थान्तरत्वात्; अर्थान्तरत्वे च सैव विशेषरूपता अर्थक्रियार्थिप्रवृत्तिविषयत्वाद् वस्त्वस्तु, तत्फलविशेषोपादानभावलक्षितस्वभावत्वात् वस्तुनः; सा च तादृशी नान्यत्रास्ति, अर्थिनः प्रवृत्त्य
१. विषार्थिनः । २. विषभक्षणे प्रयत्नस्य । ३. विषादि । ४. मोदकादि । ५. मोदकादि । ६. स चासौ फलविशेषश्च यः तेनैव दध्यादिरूपवस्तुना साध्यः, तस्योपादाने भावो हेतुभावः, तेन लक्षितः स्वभावो यस्य वस्तुनः, तत्तथा, तद्भावस्तत्त्वम् । ७. अर्थक्रिया ।
For Private and Personal Use Only