SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९८ अनेकान्तवादप्रवेश: अत्रोच्यते-अथ कोऽयं विरोधः ? अन्यतरभावेऽन्यतराभाव:, इति चेत् ? अस्त्वेतत्, किन्तु शीतोष्णस्पर्शयोर्यो विरोधः, स किं स्वरूपसद्भावकृत एव ? उतैककालासम्भवात् ? आहोश्चिदेकद्रव्यायोगेन ? किमेककालैकद्रव्याभावत: ? उतैककालैकद्रव्यैक प्रदेशासम्भवेन ? आहोश्चिदभिन्ननिमित्तत्वेनेति ? किञ्चात: ? Acharya Shri Kailassagarsuri Gyanmandir न ४ तावत्स्वरूपसद्भावकृत एव शीतोष्णस्पर्शयोर्विरोधः, नहि शीतस्पर्शोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पर्शेन सह विरुध्यते, उष्णस्पर्शो वेतरेण; अन्यथा, त्रैलोक्येऽपि शीतोष्णस्पर्शयोरभाव एव स्यात् । एकस्य वा कस्यचिदवस्थानमन्यतरस्य, न चानयोर्जगति कदाचिदप्यसत्ता, सदैव वडवानलतुहिनसद्भावात् । सद्भावश्चाविद्वदङ्गनाद्यविप्रतिपत्ते:, इति । न चैककालासम्भवाद्, यत एकस्मिन्नपि काले तयोः सद्भाव उपलभ्यत एव यथा - शीता आप:, पर्वते निकुञ्जप्रस्रवणानि वा, उष्णस्त्वग्निः; न च विरोधः, न चैकद्रव्यायोगेन यत - एकेनापि द्रव्येण 9 For Private and Personal Use Only २ - १. व्यापारे । २. एककालत्वादि । ३. अन्योऽन्यस्य बाधनेन । ४. यद्वा शीतोष्णस्पर्शयोर्मध्ये एकस्य कस्याप्यवस्थानं स्यादन्यतरस्य त्वभाव एवेत्यर्थः । ५. निर्झराणि ।
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy