________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः सति इदं वक्तुमुचितम्, यदुत सर्वमेवाशुचि, सर्वमेव दुःखम्, इति; तदाशातनापत्तेरसदभिधानात् । अन्यथा, रत्नत्रयायोगः, तदन्येऽशुच्याद्यविशेषात्; योगे वातिप्रसङ्गः ।
एवं च, 'तथा ते तदात्माङ्गनाभवनमणिकनक' इत्यादि द्वेष इति कृत्वेत्यन्तं यदुक्तम्, तत्परपक्षे उक्ति मात्रमेव, उक्तवन्निर्विषयत्वाद्, अतो विरोधिधर्माध्यासितस्वरूप एव वस्तुन्यनेकान्तवादिन एव सकलव्यवहारसिद्धिः । पीडानिर्वेदादीनां च कथञ्चिदेकाधिकरणत्वान्मुक्तिसिद्धिश्च नान्यस्य । तस्माद् व्यवस्थितमेतद् -एकान्तवादिन एव मुक्त्यभावप्रसङ्गः, इति ।
स्यादेतद्-विरोधिधर्माध्यासितस्वरूपत्वे सति वस्तुन एवाभावात् तन्निबन्धनव्यवहाराभावः, न हि शीतोष्णस्पर्शवदेकमस्ति, तयोर्विरोधाद्, इति ।
१. असद्रत्नत्रयस्याशुच्यादि इत्थं चैतदङ्गीकर्त्तव्यम् । अन्यथा तद्रत्नत्रयमेव न स्यात् । २. तस्माद्रत्नत्रयादन्ये ये शुच्यादयः । आदिपदाहुःखग्रहः तैः सह विशेषः स्याद्रत्नत्रयस्य । ३. अशुच्याद्यविशेषेऽपि रत्नत्रययोगे । ४. कृत्वा । ५. युक्तं एकं किञ्चिद् वस्त्विति ।
For Private and Personal Use Only