________________
Shri Mahavir Jain Aradhana Kendra
९६
www.kobatirth.org
अनेकान्तवादप्रवेश:
।
प्रमेयताद्यभावापत्तेः, इति । न विपश्चितस्तथा विरोधाभिधानं वैपश्चित्याविरोधि, तत्तथाऽभावे सकलव्यवहाराभावप्रसङ्गात् । अप्रमेयत्वेन स्वलक्षणेषु प्रमाणाप्रवृत्तेः । भ्रान्तौ च स्वसंविदभावप्रसङ्गात्, न चैतदात्माङ्गनाभवनाद्यनात्मक मनित्यमशुचिदुःखमेव, अन्वयस्यैवात्मत्वात्, तस्य च व्यवस्थापितत्वात् । एवं नानित्यमेव, तदतादवस्थ्यात् । अन्यथा, तदनुपपत्तेः । नाशुच्येव, शुभपरिणामभावात्, लोके जलेन शुचिकरणेन तथोपलब्धेः । एवं न दुःखमेव, मुक्तिसुखजनकत्वात्, पारम्पर्येण तत्स्वभावत्वाद्, इति ।
४
Acharya Shri Kailassagarsuri Gyanmandir
किञ्च-अनात्मकं शून्यमसदित्येकोऽर्थः, अनित्यमस्थिरं सदिति च । ततश्च यद्यनात्मकम्, कथमनित्यम् ? अथानित्यम्, कथमनात्मकम् ? इति । कथं च बुद्धधर्मसङ्घलक्षणे परमनिवृत्तिहेतौ निर्दोषे महारत्नत्रये
४.
१. विरोधिधर्माभिधानं । २. विरोध्येव । ३. तेषां स्वलक्षणादीनां साधारणप्रमेयतादिरूपेणाभावे व्यवहाराभावमेव दर्शयति । ५. साधारणप्रमेयताभावे । ६. विकल्पात्मकायाम् । ७. तुच्छभावत्वेन तादवस्थ्यानुपपत्तेः । ८. मुक्तिसुखजनकत्वात् । ९. पर्यायशब्दाः खल्वेते इत्यर्थः ।
For Private and Personal Use Only