________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
९५ एतेन, यस्मिन्नेव सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्ताने कर्पासे रक्तता यथा ।। ४ ।।
इत्याद्यपि निरस्तमवगन्तव्यम् ।
यच्चोक्तम्-'अन्यथात्मनो व्यवस्थितत्वाद् वेदनाऽभावाद् भावेऽपि विकारान्तराभावात् प्रतिपक्षाभ्यासेनाप्यनाधेयातिशयत्वाच्च मुक्त्यसम्भवः' इत्येतदपि न नः क्षतिमावहति, अनभ्युपगमात् नोकान्तनित्यमस्माभिरात्मादिवस्त्विष्यते ।।
किन्तर्हि ? कथञ्चिद्, यथा वाऽस्य नित्यानित्यता सदसद्रूपता च तथोक्तमेव, नित्यानित्यादिधर्मवत्येव च ग्राह्यग्राहकभावस्वकृतकर्मफलोपभोगसम्यग्ज्ञानभावनादयो युज्यन्ते, कथञ्चिदवस्थितत्वाद्, अनुभवसिद्धत्वाद्, न चानुभवसिद्धे वस्तुनः सदसद्रूपादित्वे विरोधिधर्माध्यासितस्वरूपाभिधानं न्याय्यम् । अतथाभावे तदभावप्रसङ्गतो विरोधासिद्धेः, इत्युक्तं प्राक् । न च परैरपि स्वलक्षणेषु साधारणप्रमेयता भ्रान्तौ चाभ्रान्ता स्वसंविन्नेष्यते, तेषां स्वलक्षणादीनां
१. कर्म । २. वस्तुनः । ३. वस्तुनि । ४. कथञ्चिदवस्थितत्त्वं च तस्यैव ग्राह्यादेस्तथैव वृत्तेर्विशिष्टग्राह्यादि । ५. रूपेण वर्त्तनात् । ६. सदसद्रूपाभावे । ७. वस्तु । ८. बौद्धैः । ९. स्वाभ्युपगतेषु वस्तुषु । १०. सामान्य ।
For Private and Personal Use Only