SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९४ www.kobatirth.org अनेकान्तवादप्रवेशः तन्निर्वर्त्त्यापत्तेरतिप्रसङ्गात् । Acharya Shri Kailassagarsuri Gyanmandir अथ वासनामाधाय निरुध्यते ? इति, एतदप्ययुक्तम्, वास्यवासकयोर्युगपदभावात् । किञ्चवासकाद् वासना भिन्ना, अभिन्ना वा भवेद् यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्ययम् ॥ १ ॥' अथाभिन्ना न सङ्क्रान्तिस्तस्या वासकरूपवत् । वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रसज्यते ।। २ ।। असत्यामपि सङ्क्रान्तौ वासयत्येव चेन्ननु । अतिप्रसङ्गः स्यादेवं, कल्पिता चेत् तयाऽपि किम् ॥ ३॥ भाविस्वसन्ताने निर्वत्र्त्यं कार्यान्तरमेवमन्यसन्तानेऽपि तदनन्तरभाविसर्वं कार्यान्तरं तन्निर्वत्र्त्यं प्रसजतीत्यर्थः । १. कुशलकारीक्षण: । २. यदि हि वास्यो वासकश्च युगपत्स्याताम्, तदा वासको वास्ये वासनामधाय निरुध्यते, इत्येतद् घटते । न च वास्यवासकज्ञानक्षणयोर्युगपत्ताभ्युपगम्यते बौद्धैः । ३. वासनया । ४. वास्यं । ५. वासको ज्ञानक्षणः । ६. वासनायाः । ७. यथा वासकस्य स्वरूपमभिन्नं सद्वासकाद् वास्ये न सङ्क्रामति एवं वासनाऽपि वासकादभिन्ना वास्ये न सङ्क्रामेत् । ८ सन्तानान्तरवर्त्तिनामपि ज्ञानक्षणानां वासनाप्रसक्तेः । ९. अथ वासना कल्पिता तया सह भेदाभेदविकल्पावनुपपन्नाविति चेत् । १०. कल्पितया वासनया किञ्चिदसत्त्वात् । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy