________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः विरोधः, नह्यनुत्पन्नो निरुद्धो वाऽसौ तदाधानकर्तृत्वे प्रभुः, उदयकालाधानाभ्युपगमे च द्वयोरपि तुल्यकालप्रसङ्गः । अथ तद्गतः कार्यान्तरनिवर्तनसमर्थः शक्तिविशेषस्तमाधाय निरुद्धयते, इति पूर्वोक्तदोषः, तस्य कार्यव्यतिरेकेणानभ्युपगमात्, तदात्मलाभकाल एव चोत्तरकालभा पि तन्निवर्त्यस्य कार्यान्तरस्य भवनप्रसङ्गः, त त्रापेक्षित्वाद्, इतरस्यापि भावमात्रेणैव जनकत्वात्, अनन्तरभवने वा
१. तस्मादुत्पन्नोऽविनष्टश्चोत्तरं कार्यं जनयतीति प्राप्तम् । एवं च क्षणिकत्वे कुशलकारिणो द्वितीयक्षणेऽप्यवस्थानप्राप्तेः । २. कुशल । ३. अथ कुशलकारी कुशलकारणक्षण एवोत्तरकार्यं जनयतीत्यभ्युपगम्यते तदा कार्यकारणयोरेककालताप्रसङ्गः । ४. दूषणान्तरमाह-तदित्यादि तस्याहितविशेषस्य कार्यस्य य आत्मकालस्तस्मिन्नेव तन्निष्पाद्यमग्रेतनकार्यं भाविकार्योत्तरमपि प्राप्नोति । एवं तस्मादप्यग्रेतनं यावत्तदेव सुखदुःखोपभोगप्राप्तिरित्यर्थः । ५. कार्यान्तरस्य । ६. यतस्तस्य कार्यस्याहितविशेषस्य यद्भावमात्रं तदेवापेक्षते कार्यान्तरम्, नान्यात्किञ्चित्कारणान्तरं तद्भावस्य समर्थस्यैवोत्पन्नत्वात् । ७. आहितविशेषस्य कार्यस्यापि । ८. न कारणान्तरापेक्षया । ९. अथाहितविशेषस्य कार्यस्यानन्तरं तस्मिन् विनष्ट कार्यान्तरं भवतीत्यभ्युपगम्यते प्राच्यदोषपरिहाराय, तदा तेन समर्थेन कार्येणानन्तरभूतेन यन्निर्वत्यै कार्यान्तरं तस्यापत्तेरतिप्रसङ्गात्, इदमुक्तं स्याद्यथा तदनन्तर
For Private and Personal Use Only