SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ अनेकान्तवादप्रवेशः तदेवं वैशिष्ट्याभावाद्धेतुफलभावानुपपत्तिः, इति स्थितम् । असति चास्मिन् 'विशिष्टां रूपादिसामग्री प्रतीत्य विशिष्टमेव संवेदनमुपजायते' इत्यादि यदुक्तम्, तत्सर्वमपाकृतमेवावगन्तव्यम्; तथाप्यत्यन्तमवगणय्याऽनुभवमसम्भावितमेव विद्वज्जनोपहास्यं मुग्धजनविभ्रमकरं यदुक्तम् क्षणभेदेऽप्युपादानोपादेयभावेनैकस्यामेव सन्ततावाहितसामर्थ्यस्य कर्मणः फलदानाद्' इत्यादि; तथा 'यः कुशले प्रवर्तते, स यद्यपि तदैव सर्वथा विनश्यति, तथापि निरुध्यमानः स्वानुरूपकार्योत्पादनसमर्थं सामर्थ्य विज्ञानसन्ततावाधाय निरुध्यते' इत्यादि च । अत्र विशेषत उच्यते-सर्वमिदमयुक्तम्, सामर्थ्याधानस्यासिद्धत्वात्; तथाहि-किमिदं सामर्थ्य नाम ? किमुत्तरः कार्यभाव एव ? उत तद्गतकार्यान्तरनिर्वर्त्तनसमर्थः शक्तिविशेषः ? आहोश्चिद्वासना? इति; यदि-'उत्तरः कार्यभाव एव तमाधाय निरुध्यते' इत्यभ्युपगम्यते, हन्त ! तर्हि क्षणिकत्व १. प्राच्यं युक्तियुक्तं मदुक्तम् । २. उत्तरकार्यगत । ३. सामर्थ्यं । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy