________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश: तयोर्योगो भवत्येव; तथा च शीतकाले रात्रौ निरावरणे देशे पर्युषिते लोहभाजने शीतस्पर्शो भवति, तत्रैव मध्याह्ने दिनकरप्रतप्ते उष्णः, इति न च विरोधः, न चैककालैकद्रव्याभावतो विरोधः; यतः-एकस्मिन्नेव काले एकस्मिंश्च द्रव्येऽनयोर्भाव एव; तथाहिधूपकडुच्छकस्थालकेऽग्निसम्बन्धे उष्णस्पर्शो भवति, तस्यैव तु गण्डे शीतः, इति; न च विरोधः, एककालैक द्रव्यैक प्रदेशासम्भवविरोधस्त्विष्ट एव, एकप्रदेशस्यापरदेशाभावेनावयवावयविभेदानुपपत्तेभित्रधर्मत्वात् । भिन्नधर्मयोश्चैकत्वं विरुद्धमेव, अन्यथा तद्भेदाभावप्रसङ्गात् । न चैवं सदसन्नित्यानित्यादिभेदानां भिन्नधर्मत्वम् एकत्रैव भावात्, भावस्य च 'यतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सत्, परद्रव्यक्षेत्रकालभावरूपेण चासद्' इत्यादिना प्रतिपादितत्वात् । ततश्च नासम्भवभाविना विरोधेन नियमभाविनामपि विरोधकल्पना न्याय्या, अतिप्रस
१. दण्डके । २. एकस्मिन् काले एकस्मिन् द्रव्ये एकस्मिन् प्रदेशेऽसम्भवलक्षणो विरोधः, शीतोष्णस्पर्शयोरभ्युपगम्यत एवेत्यर्थः । ३. शीतोष्णस्पर्शयोरभ्युपगम्यत एवेत्यर्थः । ४. शीतोष्णस्पर्शयोः । ५. तयोर्धर्मयोर्भेदः । ६. यथा शीतोष्णस्पर्शयोस्तथा ।
For Private and Personal Use Only