________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९
४
अनेकान्तवादप्रवेशः तत्र व्यस्ता उपादानसहकारिप्रत्ययाः समस्तान् स्वानुरूपकार्योपजननयोग्यान् जनयन्ति, समस्ताश्च तैरुपाहितातिशयरूपाः सामर्थ्यप्रकर्षवता रूपभेदेनानुगतानन्यान् कालोपाधिप्रकर्षप्रापितरूपभेदान्, तेऽप्यन्यान्मात्रया, इति क्रमेणोत्तरोत्तरप्रसवपरम्परया विवक्षितफलापेक्षया चरमक्षणकालभाविनो भावाः परतस्तमतिशयमासादयन्ति, यतः कार्यजन्मेति तदेव वैशिष्ट्यमिष्यते, इति ।
एतदप्ययुक्तम्, विहितोत्तरत्वात्, नहि व्यस्तानामपि कारणे विशेषाधानमन्तरेण समस्तलक्षण
१. बीजक्षित्यादयः । २. यदा जलार्द्रायां पृथ्व्यां बीजमुप्तं तदा बीजमपि क्षित्यादीन् सर्वान् जनयति । क्षितिरपि क्षितिबीजादीन् सर्वान् । एवमन्येऽपि । ३. स्वनिष्पाद्याङ्कुरादिकार्यजननसमर्थान् क्षणान् । ४. एकैकशो बीजक्षित्यादिसमस्तजननस्वभावा बीजादयः । ५. आत्मना आत्मना सह जातैः क्षित्यादिभिः । ६. यदा हि समस्ता अन्यान् समस्तान् जनयन्ति, तदाऽमीषां सहोत्पन्नैः क्षित्यादिभिरतिशयः स्यात्; यदा तु तेऽन्येऽपि समस्ता अपरान् समस्तान् जनयन्ति, तदा तेऽन्ये समस्ता अन्यूनानतिरिक्तकारणत्वात्, कथमपरसमस्तेष्वतिशयमादधतीत्याह-कालेति, काललक्षणो योऽसौ उपाधिविशेषस्तेन कृत्वाऽन्यैः समस्तैः प्रापितो रुपभेदो येषामपरसमस्तानां तान् । ७. किञ्चिदधिकमित्यर्थः । ८. व्यस्ता हि समस्तलक्षणं विशिष्टं कार्यं तदा जनयन्ति, यदि
For Private and Personal Use Only