________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
अनेकान्तवादप्रवेशः कार्यविशेषो युज्यते, अतिप्रसङ्गाद् । विशेषाधानस्य चैकक्षणमधिकृत्य निराकृतत्वात्, प्रबन्धचिन्तायामपि तुल्यत्वात्, क्षणव्यतिरेकेण प्रबन्धायोगात्, उक्तञ्च'विशेषहेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामेव युज्यन्ते क्षणानामविवेकतः ।।१।।
इत्यादि
अथ तदनन्तर भावित्वम्, तदप्ययुक्तम्, अतिप्रसङ्गात् तस्य हि तत्कालोपजातसकलपदार्थेष्वविशिष्टत्वात्, तथा च'तदनन्तरभावित्वात् तत्फलत्वं प्रसज्यते । विश्वस्य कारणंतद्धि न चेत् सर्वस्य सम्मतम् ।।१॥ विशिष्टकार्यजननस्वभावं हीष्यते यतः । मुक्त्वोपलम्भं कार्यस्य कारणानन्तरं कथम् ।।२ ॥ तेषु कोऽपि विशेषः स्यात् । विशेषोऽपि व्यस्तेषु तदैव स्याद् यदि तेषां कारणेऽपि विशेषाधानं स्यात् ।
१. यदि कारणे विशेषमन्तरेणैव कार्यविशेषस्तदा कुशूलस्थस्यापि बीजस्याङ्कुरोत्पत्तिः स्यात् । २. क्षणे एव प्रतिबन्ध इत्यभ्युपगमात् । ३. अव्यतिरेकात् । ४. सकलानामपि पदार्थानां फलत्वप्रसङ्गः । ५. तस्य विवक्षितकारणस्य मृदादेः । ६. विवक्षितं मृदादि । ७. किमिति तत्कारणं सर्वस्य न सम्मतमित्याह-विशिष्टेति ।
For Private and Personal Use Only