________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
अनेकान्तवादप्रवेशः अथ विशिष्टकारणजन्म, तदप्यसाधु, कारणवैशिष्टयानुपपत्तेः, तथाहि-तत्प्रत्ययान्तरसम्पातात् प्रतिकलमाहितातिशयं सत्तन्निर्वर्त्तयद्विशिष्टमुच्यते; इति । एतच्चायुक्तम्, प्रत्ययान्तरसम्पातेऽप्यतिशयायोगात्; तथाहि-स तस्यातिशयः प्रत्ययान्तरसम्पातजन्मानुत्पन्नस्य वा स्याद् ? उत्पद्यमानस्य वा ? उत्पन्नस्य वा ? निवर्तमानस्य वा ? निवृत्तस्य वा ? इति विकल्पाः । न तावदनुत्पन्नस्य, तस्यैवासत्त्वात् । नाप्युत्पद्यमानस्य उत्पद्यमानावस्थानभ्युपगमात् । नाप्युत्पन्नस्य, अनाधेयातिशयत्वाद्, अतिशयाधाने च तदन्यत्वप्रसङ्गात् । नापि निवर्त्तमानस्य, निवर्तमानावस्थानभ्युपगमात् । नापि निवृत्तस्य, तस्यैवाविद्यमानत्वात् ।
स्यादेतद्, नह्येकक्षणमङ्गीकृत्यातिशयचिन्ता । किं तर्हि ?
प्रबन्धं तथा चोक्तम् - 'उपकारी विरोधी च सहकारी च यो मतः प्रबन्धापेक्षया सर्वे नैककाले कथञ्चन ।। १ ॥'
१. बीजादि । २. क्षित्यादिसहकारिणः । ३. बीजादिकारणम् । ४. अङ्कुरादिकार्यम् । ५. सोऽतिशयः कारणाद्भिन्नः प्रसज्यते । ६. एकैकशः ।
For Private and Personal Use Only