________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७
अनेकान्तवादप्रवेशः च मिथोऽत्यन्तभिन्नत्वात्,अतत्कारणात्तत्कार्यव्यावृत्तेश्च वाङमात्रत्वात्, स्वरूपव्यतिरेकेण सर्वभावानामेव सर्वभावेभ्यो विशेषेण व्यावृत्तेः । विशेषाभ्युपगमे च पर्यायतः समानपरिणामाभ्युपगमप्रसङ्गात् ।
अथैकार्थक्रियाहेतुत्वम्, तदप्यसङ्गतम्, तस्यासिद्धत्वात्; नहि हेतुफलयोरेकार्थक्रियाहे तुत्वमस्ति, यौगपद्याभावात् हेतु-फलभावानुपपत्तेः फलस्यैवार्थक्रियारूपत्वाद, यथोक्तम्-'भूतिर्येषां क्रिया सैव' इत्यादि ।
१. स मृत्स्वभावः कारणं यस्यासौ तत्कारणो मृत्पिण्डघटादिर्न तत्कारणोऽतत्कारणो जलादिः । एवं तस्य मृत्स्वभावस्य कार्यं तत्कार्यं घटादिः, न तत्कार्यमतत्कार्यं जलायेव तद्व्या... साधारणाया यत्सम्बन्धित्वं मृत्पिण्डघटयोः सविशेषहेतुफलभाव इति चेत्, न । २. सजातीयेभ्यो विजातीयेभ्यश्च । ३. न हि यथा विजातीयेभ्यो व्यावृत्तिस्तथैव सजातीयेभ्योऽपि कथञ्चिदव्यावृत्तिरपीति । ४. तथाहि-हेतुफलयोर्योगपद्यं स्यात्तदैतयोरेकार्थक्रियाहेतुत्वं स्यात् । अथ यौगपद्यमेतयोरप्युपगम्यते तदा हेतुफलभाव एव न घटते । नहि समसमयभाविनोर्गोविषाणयोर्हेतुफलभावः। ५. तथा फलमेवार्थक्रियाऽभ्युपगम्यते । ततश्च हेतोरर्थक्रियाफलमेव । फलस्य चान्यया कयाऽप्यर्थक्रियया भाव्यमिति कथं हेतुफलयोरेकार्थक्रियाहेतुत्वम् ।
For Private and Personal Use Only