________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
अनेकान्तवादप्रवेशः द्यभेदते जलाद्यानयनादिकार्यप्रसाधकत्वप्रसङ्गात्, घटादीनामपि वाऽप्रसङ्गात् ।
___ अथ तयोरेककालता तत्र वक्तव्यम्, किं सर्वात्मना ? उत कथञ्चित् ? यदि सर्वात्मना, ततोऽसम्भव एव, कार्याभावात्; नहि सर्वात्मना कारणतादवस्थ्ये कार्यजन्म युज्यते, इति प्रतीतम् । अथ कथञ्चिद्, एवं त_स्मन्मतानुवाद एव, केन - चिदात्मना कार्यकारणयोरेकत्वाभ्युपगमात् ।
अथ कारणधर्मसङ्क्रान्तिः, साऽप्यघटमाना, कार्यकारणयोरत्यन्तं भेदाभ्युपगमात्, कारणव्यतिरिक्तस्य च धर्मस्यासम्भवात्; तत्सङ्क्रान्तौ वान्वयप्रसिद्धिप्रसङ्गात् ।
अथ साधारणवस्तुसम्बन्धित्वम्, तदप्ययुक्तम्, साधारणवस्तुनोऽभावात्, स्वलक्षणानां वस्तुत्वात्, तेषां
१. जलाद्यानयनादिकार्यस्याप्रसक्तः, घटादीनां मृदाद्यभेदात्, मृदादिषु जलाद्यानयनादिकार्यस्याभावात् । २. हेतुफलयोः । ३. यदि सर्वेण स्वरूपेण कारणं कार्यश्च एकस्मिन् कालेऽभ्युपगम्यते, तदैतयोरेककालताया असम्भव एव । ४. द्रव्यस्वरूपेण । ५. नहि कारणाद् व्यतिरिक्तः कश्चित् कारणधर्मः । ६. कारण । ७. मृत्पिण्डघटयोर्यत्साधारणस्ततो मृदः सम्बन्धित्वमिदमेव वैशिष्टयं हेतुफलयोः । ८. उभयसाधारणस्य मृदादिसामान्यस्याभावात् ।
For Private and Personal Use Only