SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः कप्रकारशुभधर्माध्यासाद् रागादिबीजोन्मूलनसमर्थमार्गभावनातः प्रतिकलमवदायमानविशुद्धिपर्यन्तवर्त्तिक्षणोत्पादाधिगतविमुक्तयः कथ्यन्ते, इत्यनवद्यम्; अन्यथा, आत्मनो व्यवस्थितत्वाद्वेदनाभावेऽपि विकारान्तराभावात्, प्रतिपक्षाभासेनाप्यनाधेयातिशयसम्भवाच्च मुक्त्यसम्भवः, इति । एतदपि तत्त्वापरिज्ञानविजृम्भितमेव, भवत्पक्षेऽपि विशिष्टहेतुफलभावानुपपत्तेः; तथाहि-किं वैशिष्ट्यं नाम ? किं हेतुफलयोरैक्यम् ? तयोरेवैककालता ? अथ कारणधर्मसंक्रान्तिः ? उत साधारणवस्तुसम्बन्धित्वम् ? किं वैकार्थक्रियाहेतुत्वम् ? किं वा विशिष्टकारणजन्म ? किं वा तदनन्तरभावित्वम् ? किं वा विशिष्टक्रियाहेतुत्वम् ? किं चात: ? ___ यदि हेतुफलयोरैक्यम्, तर्हि हेतुफलभावानुपपत्तिरेव, सर्वथैकत्वान्मृत्पिण्डत्वादीनामपि घटपटा १. नैरात्म्य । २. विशुध्यमानाश्च ते विशुद्धिपर्यन्तवर्त्तिक्षणोत्पादाधिगतविमुक्तयश्चेति समासः । ३. एवमनभ्युपगमे । ४. अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया । ५. वेदनायाः, इति शेषः । ६. शास्त्रविहितेन । . For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy