________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
अनेकान्तवादप्रवेशः । वधानोपनीतप्रबोधात् फलमिष्टमनिष्टं चोपजायते; अतो न यथोक्तदोषः। प्रतीतश्चायमर्थः; तथाहि-रसायनादिभिः प्रथमोपनिपातवेलायामाहितो विशेषो देहे तदुत्तरोत्तरावस्थाभेदोपजननेन पश्चाद्देहातिशयस्य बलमेधारोग्यादेर्निष्पादकः, तथा लाक्षारसनिषेकोपनीतसामर्थ्य मातुलिङ्गकुसुममुत्तरोत्तरविशेषोपजननेन फलोदरान्तवर्तिनः केसरस्य रक्तताहेतुर्भवत्येव; इति दृष्टत्वान्मुच्यतामभिनिवेशवैशसम् । यच्चोक्तम् ‘मुक्तिरपि प्राणिनामसङ्गता' इत्यादि- यावदयं च प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपैति ?' इति । तदप्ययुक्तम्, प्रतिक्षणनिरन्वयनश्वरात्मपक्ष एव युज्यमानत्वात्, तथाहि-नैरात्म्यवादिनः क्षणिकाः पदार्थाः, यथाहेतुसन्निधानं विक्रियामात्मसात्कुर्वाणाः समुपरोधहेतुभिर्यदा पीड्यन्ते दुःखविशेषाध्यासितोत्तरोत्तरक्षणोत्पत्तितः, ततस्ते निर्विद्यन्ते, निर्विद्योत्तरोत्तरक्षणसमुत्पादान्निविण्णास्तदुत्तरोत्तरश्रुतभावनादिना अक्लिष्टानेकक्षणपरम्परोत्पादनेन दानदमसंयमाद्यने
१. ज्वरादिविघातबीजभूतः । २. विशिष्टविशिष्टतरभेदतः । ३. तत्सन्तान एव । ४. सिद्धन्तवादिना ।५. मुक्तेः। ६. मते । ७. ज्वरादिभिः । ८. प्रबन्धेन निर्वृत्ताः सन्तः ।
For Private and Personal Use Only