________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः ८३ स्यादेतद्-विशिष्टहे तुफलभावनिबन्धनः सर्व एवायमैहिकामुष्मिक व्यवहारः; तथाहि-विशिष्टां रूपादिसामग्री प्रतीत्य विशिष्टमेव संवेदनमुपजायते, ततश्च तदेव तस्य ग्राहकमभिधीयते, न पुनरन्यद्, अतिप्रसङ्गात्; एवं स्मरणाद्यपि भावनीयम् इति कृतनाशाकृताभ्यागमप्रसङ्गोऽप्यत्रानवकाश एव, क्षणभेदेऽप्युपादानोपादेयभावेनैकस्यामेव सन्ततावाहितसामर्थ्यस्य कर्मणः फलदानात्, अतो य एव सन्तानः कर्ता, स एव भोक्ता, इति; तथाहि-यः सकुशले प्रवर्त्तते, स यद्यपि तदैव सर्वथा विनश्यति, तथापि निरुध्यमानः स्वानुरूपकार्योत्पादनसमर्थं सामर्थ्य विज्ञानसन्ततौ आधाय निरुध्यते; यत:सामर्थ्यविशेषादुत्तरोत्तरक्षणपरिणामेन कालान्तरपरिणामसञ्जातवासनापरिपाकात् सहकारिप्रत्ययसम
१. कारणकार्यभाव । २. अक्षेपकार्यजननसमर्था । ३. उद्दिश्य । ४. संवेदनान्तरं । ५. सर्वस्य सर्ववित्त्वापत्तेः । ६. तत्संस्कारनिबन्धनत्वेन । ७. विशिष्टकार्यकारणभावपक्षे । ८. हेतुफलभावेन । ९. प्रतीत्यभवनद्वारेण करणात् । १०. तदुक्तम्-'यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना ।
फलं तत्रैव सन्धत्ते, कसे रक्तता यथा ।। १ ।।' ११. सामान्येन । १२. प्रवृत्तिकाले । १३. विशिष्टवतीत्योत्पादितः । १४. आहितात् । १५. प्रशान्त...हितया ।
For Private and Personal Use Only