SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८२ www.kobatirth.org ७ Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः २ कृतनाशाकृताभ्यागम-प्रसङ्गात्; तथाहि यः कुशले प्रवर्त्तते स तदैव सर्वथा विनश्यति, कुशलमपि च कर्मात्मलाभसमनन्तरमेव निरन्वयमपैति, अतः कृतनाशः, क्षणान्तरस्य चिरविनष्टात्कर्मणः पुनरायत्यां फलोदयाभ्युपगमे सत्यऽकृताभ्यागमः, इत्येतच्चासमञ्जसम् । तथा मुक्तिरपि प्राणिनामसङ्गतैव; तथाहितीव्रतरवेदनाविभिन्नशरीरः संसारविमुखया प्रज्ञया विभावितसंसारदोषो निरास्थो जिहासुर्भवमुपादित्सुनिर्वाणं रागादिक्लेशपक्षविक्षोभक्षममामुखीकृत्य मार्गममलं क्रमेणावदायमानचित्तसन्ततिर्निरतिशयपेशलरसामास्वादयति निर्वृतिमिति न्यायः, अयं च प्रतिक्षणनिरन्वयनश्वरत्वे सति आत्मादिवस्तुनो न घटामुपैति, तथाहि - अन्य एव दुःखैः सांसारिकैः पीड्यते, अन्यश्च निर्विद्यते, अन्यस्य च विरागमुक्ती, इति, अशोभनमेतद्, अतिप्रसङ्गात्, एवमामुष्मिक व्यवहारोऽप्यसङ्गतः, इति स्थितम् । १. कर्मफलसम्बन्धादिभिः । २. तदा फलमदत्त्वैव नाशात् । ३. निरन्वयनश्वरत्वात् । ४. सन् । ५. लोकोत्तरया । ६. जन्मादिभावेन संयोगवियोगसारत्वात् संसारम्य । ७. सम्यग्दर्शनादि । ८. प्रीतिं । ९. ततोऽत्यन्तभेदात् १०. सन्तानान्तरे सन्तानान्तरफलापत्तेर्नानात्वाविशेषात् । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy