SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः अभावस्य क्षणिकत्वविरोधात् । तदेव विशिष्टं तद्व्यवस्थाकारि, इति चेत् ? न, कारणविज्ञानबोधान्वयव्यतिरेकेण कार्यविज्ञानस्य वैशिष्ट्यायोगाद्, अतिप्रसङ्गात्, तद्वदपरस्यापि वैशिष्ट्यापत्तेः। स्यादेतत्-समानकालयोरेव ग्राह्यग्राहकभावः; तथाहि-स्वहेतुभ्य एव तद्विज्ञानं विशिष्टसमानकालभाविभावग्राहकस्वभावम्, भावोऽपि तद्ग्राह्यस्वभाव एवोत्पद्यते; इति यथोक्तदोषानुपपत्तिः । न, तयोस्तादात्म्यतदुत्पत्त्यनुपपत्तेः, प्रतिबन्धाभावात् । इत्यलं प्रसङ्गेन विजृम्भितमेवाऽत्रास्मत्स्व - यूथ्यैः; इति । स्मरणाद्यसम्भवस्तु प्रतिक्षण-निरन्वयेन नश्वरत्वे सति वस्तुनः सुभाव्य एव । नान्येनान्यस्मिन्ननुभूते न्योपलब्धौ स्मरणप्रत्यभिज्ञादयो युज्यन्त इति । एवम्, ऐहिकसकल-लोकसंव्यवहाराभावः, इति स्थितम् आमुष्मिकव्यवहारस्तु सुतरामसङ्गतः, १. विशिष्टग्राह्यग्राहकभावव्यवस्थेति प्रत्यन्तरे । २. अर्थसंवेदनयोः । ३. विज्ञानेभ्यः। ४. स्वहेतोरेव । ५. भावात् । ६. अर्थसंवेदनयोः । ७. समकालतयेति भावः । ८. दिवाकरादिभिः । ९. सचेतनादेः । १०. प्रमात्रा । ११. प्रमेये । १२. प्रमातुः । १३. प्रमेयान्तरोपलब्धौ । १४. यथोक्तनीत्या । १५. पारत्रिकः । ऽन्यर १४ For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy