SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अनेकान्तवादप्रवेशः संवेदनप्रसूतेः, तदभावभावित्वात् संवेदनस्य, कुतस्तस्य तद्ग्राहकत्वम् ? इतरस्य च तद्ग्राह्यत्वम् ? इति; आदाय युक्तिप्रदीपं तिरस्कृत्य स्वदर्शनाभिनिवेशतिमिरं निभाव्यतामेतद, इति । आकारार्पणक्षमत्वमपि तस्यानिश्चितमेव । नहि 'अनन्तरातीतविषयाकारमेवेदं संवेदनम्' इति विनिश्चेतुं शक्यते, तस्याग्रहणाद् । अग्रहणं च तदानीमसत्त्वाद् । असति च तस्मिंस्तदाकारमेतदर्तदाकारं न भवति, इति अवगमानुपपत्तिः । संविद्यमानादेवं संवेदनाकारीत् तदाकारत्वावेगमः, इति चेत् ? तथाहि-यद्यद्ग्राहकं न भवति, तत्तदाकारं न भवति, पीताग्राहकमिव नीलसंवेदनम्, तद्ग्राहकं चैतदतः इति कथं तदवगमानुपपत्तिः ? इति। एतदप्ययुक्तम्-तत्प्रत्यक्षतानुपपत्तेरनुमीयमानत्वात् । न चानुमानताऽप्यत्र, एवंविधाविनाभावव्यवस्थाकारिणः क्षणद्वयग्राहिणो विज्ञानस्याभावाद्, १. किमित्यत आह । २. ग्राह्यत्वेनाभिमतार्थ । ३. अर्थस्य। ४. तदुत्तरकालभाविसंवेदनग्राह्यत्वम् ।५. सूक्ष्माभोगहस्तेन । ६. अर्थस्य । ७. अनन्तरातीतविषयस्य । ८. संवेदनकाले ।९.विषयस्य ।१०.विषयाकारं ।११. अन्याकारं ।१२. संवेदनगताकारात् । १३. अनन्तरातीतविषयाकारत्वावगमः । १४. यथा नीलसंवेदनं पीताग्राहकं ।१५. अनन्तरातीतविषयाकारस्य* । ( * ज्ञानस्य, अविनाभावः ।) For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy