SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः ७९ तत्कथञ्चित्प्रतिक्षणनश्वरं स्यात् ? सर्वथा वा ? । यदि कथञ्चिद, अर्हन्मतानुवाद एव; तथा चोक्तमहन्मतानुसारिभिः सर्वव्यक्तिषु नियतं क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।१ ॥ इति । अथ सर्वथा, हन्त ! तौहिकामुष्मिकसकललोकसंव्यवहाराभावप्रसङ्गः; तथाहि-प्रतिक्षणनिरन्वयेन नश्वरत्वे सत्यात्मादिवस्तुनः ग्राह्यग्राहकभावस्मरणप्रत्यभिज्ञानकुतूहलविरमणाद्याविद्वदङ्गनादिप्रतीतमपि नोपपद्येत, नहि ग्राह्यार्थतद्ग्राहकसंवेदनयोः कथञ्चिदपि तुल्यकालताऽभ्युपगम्यते परैः, तयोर्हेतुफलभावाभ्युपगमात् । उक्तं च- 'ग्राह्यतां विदुर्हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्' इति । एवं च सति ग्राह्यार्थाभावे एव ग्राहक १. वस्तुपर्यायापेक्षया । २. घटाद्यासु । ३. क्षणसम्बन्धभेदात् । ४. कथञ्चित्सदादिरूपतया । ५. भावार्थमाहसत्योरिति, चित्रसहकारिसामर्थ्येन । ६. संस्थानसत्त्व । ७. अननुवृत्तिनशनशीलत्वे सति । ८. धर्मकीर्त्तिना । ९. भिन्नकालं कथं ग्राह्यमिति चेत् । १०. अर्थस्य । ११. अनुमानविदः । १२. वस्तुस्थित्या । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy