________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-२ अङ्कः]
अनर्घराघवम् ।
विश्वामित्रः - ( साकूतम् 1) कथं ताडका । वत्स रामभद्र, विधानमानुश्रविकं गृहेषु नः प्रतिस्किरन्ती किमियं प्रतीक्ष्यते । सुबाहुमुख्यैः सममाततायिभिर्गृहाण चापं निगृहाण ताडकाम् ॥ ५६ ॥ रामः – (सघृणातिरेकम् ।) भगवन्, स्त्रियमिमाम् ।
-
९१.
(पुनर्नेपथ्ये ।)
अब्रह्मण्यमब्रह्मण्यम् । भोस्तात विश्वामित्र, परिभूयामहे । प्रहीयता - मधिज्यधन्वा दाशरथिः ।
रामः—(विहस्य । नेपथ्यावलोकितकेन ।) बालर्षे शुनःशेफ, मुहूर्त धीरो
भव ।
अलं क्लिशित्वा गुरुमल्पकोऽयं विधिस्त्वदाज्ञैव गरीयसी नः । न कौशिकस्य त्वयि धर्मपुत्रे पुत्रे मधुच्छन्दसि वा विशेषः ॥ ५७ ॥
मुल् । छटाः समूहान् । 'अग्नित्रयमिदं त्रेता' इत्यमर: । 'शरारुर्घातुको हिंस्र:' इति च । वत्सेत्यादि । वत्स रामभद्र, इयं ताडका कथं प्रतीक्ष्यते कथं क्षम्यते । किंतु मार्यतामिति भावः । नोऽस्माकं गृहेष्वानुश्रविकं वैदिकं विधानं प्रतिस्किरन्ती नाशयन्ती । तस्माद्धेतोः शस्त्रं गृहाण | सुबाहुमुख्यैः सुबाहुप्रभृतिभिराततायिभिः शस्त्रपाणिभिः समं ताडकां निगृहाण । घातयेत्यर्थः । मुख्य आदिः । प्रशंसेयम् । 'आततायी वधोद्यतः' । 'अनिदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥' इति स्मृतिः । प्रतिस्किरन्तीत्यत्र 'हिंसायां प्रतेश्व' इति सुट् । स्त्रियमिमाम् । कथं निगृह्णामीति शेषः । 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः । परिभूयामहे वयं परिभवं प्राप्रुमः । ज्या मौर्वी । अधिगता ज्या यत्र तदधिज्यम् । ईदृशं धनुर्यस्य सः । ‘धनुषश्च’ इत्यनङ् समासान्तः। यद्वा धनुः शब्दसमानार्थो धन्वशब्दस्तस्य प्रयोगः । धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । कथमल्पीयसि भयहेतावमी व्याकुला इत्याह-विहस्येति । महौजसां महत्यपि भयहेतौ शौर्यातिशयाद्भवति हास इति स्वभावः । बालत्वादज्ञत्वेन संबोधनम् । तच्छापमाशङ्क्य तं स्तुवंस्ताडकावधरूपकर्मणि खशौर्यमप्याह - अलमित्यादि । गुरुं विश्वामित्रं क्लिशित्वालम् । वृथा गुरुर्न क्लेशनीय इत्यर्थः । अयं ताडकावरूपो विधिर्व्यापारोऽल्पकोऽत्यल्पः । अल्पार्थे कन् । स्त्रीवधस्य सुखसाध्यत्वात् । नोऽस्माकं तवैवाज्ञा गरीयसी । तवैवाज्ञया मया ताडकावधो विधेय इति
For Private and Personal Use Only
१. ‘साशङ्कमिच’; ‘ससंभ्रममिव' इति पाठः २. 'स्त्रियमिमां कथं हनिष्ये'; 'स्त्रियमिमां कथं निगृह्णामि' इति पाठः. ३. 'अब्रह्मण्यं भोः' इति पाठः.