________________
Shri Mahavir Jain Aradhana Kendra
९०
www.kobatirth.org
काव्यमाला |
(नेपथ्ये कलकलः ।)
(सर्वे ससंभ्रममाकर्णयन्ति ।)
Acharya Shri Kailassagarsuri Gyanmandir
( पुनस्तत्रैव ।)
निर्मज्जच्चक्षुरन्तर्भ्रमदति कपिशक्रूरतारा नरास्थि
ग्रन्थि दन्तान्तरालग्रथितमविरतं जिह्वया घट्टयन्ती । ध्वान्तेऽपि व्यात्तवऋज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृधरौद्री दिवमुपरि परिक्रीडते ताडकेयम् ॥ ५४ ॥
अपि च ।
त्रेताग्निकुण्डपूरं च वर्षन्तो रुधिरच्छटाः । हिंसाः सुबाहुमारीचमिश्रा नः परिवृण्वते ॥ ५५ ॥
रन्धैः किरणव्याजेन पतन्ति । कीदृशानाम् । घनतरं निबिडं यत्तिमिरमन्धकारः स एव. घुणोत्रो घुणसमूहस्तेन जग्धानां भक्षितानामिव । काष्टादौ यो लगति कीटः स घुणः । काष्टं दारु । काष्ठा दिक् । अन्येषामपि घुणभक्षितानां काष्टानां चूर्णानि पतन्तीति ध्वनिः । अदो जग्ध्यादेशः । ' काष्टं दारु' इत्यमर: । 'दिशस्तु ककुभः काष्टाः' इत्यपि । 'तारकाम्युड्डु वा स्त्रियाम्' इति च । कलकल इति । शुनःशेफप्रभृतीनामित्यर्थः । ताडकायाः क्रूरकर्मालोकनादिति भावः । 'कोलाहलः कलकल:' इत्यमरः । निर्मज्जदिति । इयं ताडकानाम्नी राक्षसी उपर्युर्ध्वदेशे आकाशे परिक्रीडते । क्रीडां करोतीत्यर्थः । कीदृशी । निर्मज्जन्निमनीभवत् । कोटररूपमिति यावत् । यच्चक्षुस्तस्यान्तर्मध्ये भ्रमन्त्य तिकपिशा क्रूरा दुर्दर्शा तारा नेत्रकनीनिका यस्याः सा । दन्तान्तराले दन्तमध्ये ग्रथितं लग्नं नरास्थिग्रन्थि मनुष्यास्नो ग्रन्थिमविरतं वारंवारं जिह्वया घट्टयन्ती चालयन्ती । अन्धकारे कथमेवं कुर्वाणा दृश्यत इत्यत आह- व्यात्तं विस्तीर्ण यन्मुखं तत्र ज्वलन्ती यानलशिखा तया जर्जरे ध्वान्तेऽप्यन्धकारेऽपि व्यक्तं कर्म यस्यास्तादृशी । गृध्रस्येव पक्षिभेदस्येव रौद्रं तीव्रत्वं यस्यां दिवि तादृशीं दिवमाकाशं निर्मान्ती कुर्वाणा | 'आच्छीनद्योर्नुम्' । परिक्रीडत इति ' क्रीडोsनुसंपरिभ्यश्च' इति तङ् । व्यात्तेति व्याङ्पूर्वाद्ददातेः क्तः । ‘अच उपसर्गात्तः' । 'अभ्यन्तरं त्वन्तरालम्' इत्यमरः । त्रेतेति । हिंस्रा घातुका राक्षसा नोऽस्मान्परिवृण्वते वेष्टयन्ति । सुबाहुमारीचाभ्यां मिश्रा मिलिताः । यद्वा मिश्रा: प्रधानाः । तथा च सुबाहुमारीच प्रधाना इत्यर्थः । त्रेताभित्रयं तस्य कुण्डं पूरयित्वा । 'चर्मोदरयोः पूरेः' इत्यनुवर्तमाने 'वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति वृष्टिप्रमाणे ण
१. 'आकलयन्ति' इति पाठ: २. ' तत्रैव भोः', 'भो भोः' इति पाठ::
For Private and Personal Use Only