________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् । रामः--(विलोक्य ।) विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाधिक
प्राच्यादिव्यवहारबीजविरहाद्दिङ्मात्रमेव स्थितम् । गृह्यन्ते भयहेतवः पटुभिरप्यक्षान्तरै ति च
ध्वान्तेनातिघनेन वस्तु वचसा ज्ञातः खरेणामुकः ॥ ५२ ॥. किं च ।
घनतरतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम् । छिटैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ ५३ ॥
शोभन्ते । तिमिरमन्धकारं शल्ययन्तो नाशयन्तः । कीदृशाः । उभयत उभयपार्श्वे निर्भरमत्यर्थं योऽहस्तमिस्रोदिनरात्र्योः संघटो मिलनं तेनोस्पिष्टायाश्चूर्णितायाः संध्याया ये कणसमूहास्तेषां परिस्पर्धिनस्तुल्याः । लोहितत्वादुत्प्रेक्षा । 'तमिस्रा तामसी रात्रिः' इत्यमरः । 'आशीविषो विषधरः' इति च । 'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' इत्यपि । निविशत इति 'नेर्विशः' इति तङ् । उभयत इति सप्तम्यां तसिः । अन्धकारप्राचुर्यमाह-विश्वमिति । चाक्षुषं चक्षुर्ग्राह्य विश्वं जगदस्तमस्तमितम् । तिरोहितमिति यावत् । विषयस्यालोकसहकृतचक्षुर्ग्राह्यत्वात् तमःकैवल्यमन्धकार एव केवलमस्ति । उपाधिर्विशेषणं तद्भवमोपाधिकम् । औपाधिको यः प्राच्यादिव्यवहारस्तस्य बीजं कारणमादित्यस्तस्याभावाद्दिङ्मात्रमेव स्थितमस्ति । सूर्योपाधिना हि प्राच्यादिव्यवहारः। सूर्योपाधिविशिष्टा दिक्प्राची, तदस्तमनोपाधिविशिष्टा दिक्प्रतीचीत्यादिरस्त्यौपाधिको व्यवहारः । स चोपाधेरादित्यस्याभावान्नास्ति । वस्तुतस्त्वेकैव दिक् । तथा च केवलमेकमेव दिक्स्वरूपं सत्यमस्तीत्यर्थः। सामान्यतो दिगवस्थिता न तु प्राच्यादिरूपेण । तथात्वेनाग्रहादिति भावः। अक्षान्तरैस्त्वगादिभिर्भयहेतवो भयकारणानि पदार्था गृह्यन्ते। भयहेतुत्वेनेत्यर्थः । तथा हि रज्जवः स्पृष्टा भोगित्वेन ज्ञायन्ते । पटुभिरपि विषयग्रहसमथैरपि । तेषां तमसानभिभवात् । चक्षुर्मात्रे हि तमसोऽभिभावकत्वम् । तथापि रजषु भोगिज्ञानं तमोमाहात्म्यादिति भावः । पटुभिरपीत्यपिर्विरोधे । अक्षमिन्द्रियम् । अतिघनेन च ध्वान्तेनान्धकारेण हेतुभूतेन वस्तु पदार्थो घटपटादिरूपो वस्तुत्वेन भाति । न तु घ. टत्वादिना । यद्वा वस्तु पदार्थों वचसा भाति । अयं घट इत्याप्तवाक्येन घटत्वेन ज्ञायते न चक्षुषा । वरेण चामुको ज्ञातनाम्नि प्रसिद्धः सर्वपर्यायो देवदत्तादिति उपलब्धः । तमःप्राबल्याचक्षुपाग्रहणादिति भावः । ज्ञात इत्यत्र 'जातिः' इति पाठे वचसा साधारणेन शब्देन । जातिर्मनुष्यत्वादिका । अमुको देवदत्तादिः । वरेणासाधारणेन भातीति सर्वत्रान्वीयते । अमुक इति लोकोक्ति: सर्वसाधारणी । अन्यानि तु पाठव्याख्यानान्य सारत्वादुपेक्षितानि । घनतरेति । काष्ठानां दिशां चूर्णान्यमीभिरुडुभिर्नक्षत्ररूपैश्छिदै
For Private and Personal Use Only